Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 459
________________ क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्वलक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहि-स्त्री-भक्ष्य-भोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धेरसिद्धो हेतुः, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा जानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-कियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥१॥ संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समेच्चा ते संपउत्ता नयरं पविट्ठा ॥२॥ (आवश्यकनि० १०१-१०२) इत्यादि । अत्राह-नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् ? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च पत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥ [विशेषावश्यकभा० ११६३] उच्यते-स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयते, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च वीसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥ [विशेषा० भा० ११६४] अतः स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति . तत्त्वम् । तथा च पूज्याः नाणाहीणं सव्वं नाणनओ भणइ किं व किरियाए ? । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥ [विशेषा०भा० ३५९१] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506