________________
क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्वलक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहि-स्त्री-भक्ष्य-भोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धेरसिद्धो हेतुः, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा जानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-कियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च
हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥१॥ संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समेच्चा ते संपउत्ता नयरं पविट्ठा ॥२॥
(आवश्यकनि० १०१-१०२) इत्यादि । अत्राह-नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् ? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च
पत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥
[विशेषावश्यकभा० ११६३] उच्यते-स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयते, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च
वीसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥
[विशेषा० भा० ११६४] अतः स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति . तत्त्वम् । तथा च पूज्याः
नाणाहीणं सव्वं नाणनओ भणइ किं व किरियाए ? । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥
[विशेषा०भा० ३५९१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org