________________
१६९
तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान- क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधुरिति । ` (अनु०द्वा०सू०६०६, गा० १४१ ) 32/1
[130] अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्यान्योऽन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति— अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥३०॥
प्रकर्षेण उद्यते - प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति प्रवादाः । यथा - येन प्रकारेण । परे - भवच्छासनाद् अन्ये । प्रवादा: - दर्शनानि । मत्सरिणः- अतिशायने मत्वर्थीय- इनविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषितान्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते । कस्मात् हेतोर्मत्सरिण इत्याह- अन्योऽन्यपक्षप्रतिपक्षभावात् । पच्यते - व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिरिति पक्ष:-कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः । तस्य प्रतिकूलः पक्षः प्रतिपक्षः । पक्षस्य प्रतिपक्षो विरोधी पक्षः प्रतिपक्षः । तस्य भावः पक्षप्रतिपक्षभावः । अन्योऽन्यं - परस्परं यः पक्षप्रतिपक्षभावः - पक्षप्रतिपक्षत्वमन्योऽन्यपक्षप्रतिपक्षभावस्तस्मात् ।
तथाहि - य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः । तन्मते शब्दस्यानित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एव मीमांसकानां प्रतिपक्षः । एवं सर्वप्रयोगेषु योज्यम् । तथा - तेन प्रकारेण, तेतव । सम्यग् एति - गच्छति शब्दोऽर्थमनेन इति पुन्नाम्निघः [सि० है० ५|३|१३० ] समय:- संकेतः । यद्वा सम्यग् अवैपरीत्येन इयन्ते ज्ञायन्ते जीवाजीवादयोऽर्था अनेन इति समय:- सिद्धान्तः, अथवा सम्यग् अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समय: - आगमः । न पक्षपाती - नैकपक्षानुरागी । पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम् । त्वत्समयस्य च मत्सरित्वाभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्, व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयति इति मत्सरित्वे निवर्तमाने पक्षपातित्वमपि निवर्तत इति भावः । तव समय इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी । सूत्रापेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थापेक्षया भगवत्कर्तृकत्वात् वाच्य-वाचकभावो न विरुध्यते । अत्थं भासइ अरहा सुत्तं गंथंति गणहरा पिउणं इति वचनात् । अथवा उत्पाद-व्यय- ध्रौव्यप्रपञ्चः समयः । तेषां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org