Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 458
________________ १६७ गाधा । सव्वे त्ति मूल साहप्पसाहभेदिणो । अप्पप्पणो अभिप्पाएण वत्थुस्सरूवं णयंतीति णया । बहुविधा-अणेगप्पगारा । एगस्स णयस्स भेदा जे ते वत्तव्वया भण्णति, अहवा एगस्स वत्थुणो पज्जवा जे ते वत्तव्वता, अधवा वत्तव्यगं तं जीवादितत्त्वं सप्रभेदं णायव्वं । णिसामेत्ता सोतुं अवधारितुं वा णिसामित्तुं । एतम्मि बहुविहणय वत्तव्वय पज्जयम्मि किं सव्वणयविसुद्धं ? उच्यते-तं सव्व इत्यादि । चरणमेव गुणो चरणगुणो, अहवा चरणं-चारित्तं, गुणा-खमादिया अणेगविधा, एतेसु जो जहट्ठितो साधू सो सव्वणयसम्मतो भवतीति ! (हा०) इत्थं ज्ञानक्रियास्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वम्, पक्षद्वयेऽपि युक्तिसंभवात् ? । आचार्यः पुनराह-सव्वेसि पि गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह-सव्वेसिं पि गाहा, सर्वेषामिति मूलनयानाम्, अपि- शब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्यश्रुत्वा तत् सर्वनयविशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः । (हे०) ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशङ्क्य ज्ञान-क्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाहसव्वेसिपि गाहा, व्याख्या-न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य-विशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्तिं निशम्य-श्रुत्वा तदिह सर्वनयविशुद्धं- सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह-यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम्, तयोस्तिष्ठतीति चरणगुणस्थः, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि-यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्यां पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षणज्वलनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात् सर्वत्र ज्ञान-क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506