Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
भा०-अत्राह-उक्तं भवता (अ० ५, सू० २६)-सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्ते इति । तत् किं संयोगमात्रादेव सङ्घातो भवति, आहोस्विदस्ति कश्चिद् विशेष इति ? । अत्रोच्यते
टी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः । प्रतिपादितार्थस्मारणप्रज्ञेनाज्ञः प्रकृतार्थशेषसम्बन्धमभिधापयति, कारणायत्तजन्मा कार्यप्रसवः, सङ्घातात् स्कन्धाः समुत्पद्यन्ते, इतिशब्दो यस्मादर्थः, तच्छब्दस्तस्मादर्थः, यस्मात् सङ्घातात् स्कन्धानामुत्पत्तिः प्रतिधीयते तस्मात् सन्देहः, किं संयोगमात्रादेव व्यणुकादिलक्षणः स्कन्धो भवति, आहोस्विदस्त्यत्र कश्चित् संयोगविशेष इति, मात्रग्रहणं सेनावनादिवत् केवलसंसक्तिप्रतिपादनार्थम्, संयोगमात्रं न तु संयोगविशेषाः, इतिशब्दः आशङ्केयत्ताप्रतिपत्तये, आचार्यस्यापि चित्तपरिवर्ती संयोगविशेषस्तत्प्रतिपादनायात्रोच्यते इत्याह, अत्रेति प्रश्नविषयाभिसम्बन्धः यत्पृष्टस्तनिश्चीयते विधीयत इति, मनीषितसंयोगविशेषाभिव्यक्त्यर्थमाह
____ भा०-सति संयोगे बद्धस्य सङ्घातो भवतीति । अत्राह-अथ कथं बन्धो भवतीति ? । अत्राह
टी०-सतीत्यादि । सति परस्परसङ्घट्टलक्षणे संयोगे बद्धस्यैव एकत्वपरिणतिभाजः सङ्घातात् स्कन्धोत्पत्तिः, एवकारार्थमितिकरणम्, पुद्गलानां पर्यायानन्त्येऽपि स्वजात्यनतिक्रमेण परस्परविलक्षणपरिणामाहितसामर्थ्यात् सति संयोगविशेषे केषाञ्चिदेव बन्धो न सर्वेषामिति निश्चितमेतत्, संयोगविशेषात् स्कन्धोत्पादः, न पुनर्व्यज्ञायि स्वरूपेण संयोगविशेषः, तत्परिज्ञानाय प्रश्नेनोपक्रम पुनः परस्य प्रकटयति-अत्राहेति । सति सङ्घाते बन्धस्य सतः स्कन्धपरिणाम इति बन्धमेव पृच्छति-अथ बन्धः कथं भवतीति । अथेत्यानन्तर्यार्थः, बद्धस्य स्कन्धपरिणामो भवतीत्युक्तेऽनन्तरं च य एव जिज्ञास्यते बन्धः-एकत्वपरिणाम स कथं-केन प्रकारेणाण्वोरणनां वा जायत इति, किं परस्परानुप्रवेशेनाहोस्वित् सार्वात्म्येन प्रवेशाभावेऽपीति ? अत्रोच्यते-परस्परानुप्रवेशस्तावन्नैवेष्यतेऽण्वोरणूनां वा शुषिराभावात्, प्राक्चैतनिर्णीतं प्रपञ्चतः, स्थापितं चेदं-परिणतिविशेषादणूनां सर्वात्मना बन्धो भवति, अयस्पिण्डतेजसोरिवान्योन्यप्रदेशाभावेऽपि गुणविशेषात् सार्वात्म्येनेष्यते बन्धः । (तत्त्वा०स्वो०भा०टी०अ०५, सू०३१) 32/1
[129] सव्वेसि पि नयाणं, बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविशुद्धं, जं चरणगुणट्ठिओ साहू ॥१४१॥ ते चेव णेगमादीया सत्त णया चरणगुणठितिमेरिसं पडिवज्जति-सव्वेसिं ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506