Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 414
________________ तत्त्वपरामर्शशून्यमस्पर्शाख्यं ज्ञानमित्यर्थः । वन्ध्यमपि-विफलमपि स्यात् एतत्संवेदनमात्रम्, स्पर्शस्तु-स्पर्शः पुनः अक्षेपेण-अविलम्बन तत् स्वकार्यं फलं ददाति यः स तथा । अयमनयोः स्पर्शान्यज्ञानयोविशेषः ॥ १२॥१५॥ (षोड०प्र०षो०१२, श्लो०१५) 26/1 [110] जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एगं जाणइ ॥१२२ ॥ 'यः' कश्चिदविशेषितः ‘एकं'-परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति'-परिच्छिनत्ति स सर्वं-स्वपरपर्यायं जानाति अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वाद, इदमेव हेतुहेतुमद्भावेन लगयितुमाह-'जे सव्व' मित्यादि, य: सर्वं-संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याउंनाद्यनन्त कालतया समस्तवस्तुस्वभावावगमत्वादिति, तदुक्तम्-“एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वावि । तीयाणागयभूया तावइयं तं हवइ दव्वं ॥१॥ (आचा०सू० अध्य० ३, उ०४, सू० १२२) 26/4 [111] स्थानादिगतो धर्मव्यापारो विशेषेण योग इत्युक्तम् । तत्र के ते स्थानादयः ? कतिभेदं च तत्र योगत्वम् ? इत्याह ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो। दुगमित्थ कम्मजोगो, तहा तियं नाणजोगो उ ॥२॥ 'ठाणुन्नत्थे' त्यादि । स्थीयतेऽनेनेति स्थानम्-आसनविशेषरूपं कायोत्सर्गपर्यङ्क-बन्धपद्मासनादि सकलशास्त्रप्रसिद्धम्, ऊर्णः-शब्दः स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणः, अर्थः-शब्दाभिधेयव्यवसायः, आलम्बनं-बाह्यप्रतिमादिविषयध्यानम्, एते चत्वारो भेदाः, 'रहितः'-रूपिद्रव्यालम्बनरहितो निर्विकल्पचिन्मात्रसमाधिरूप इत्येवं 'एषः'-योगः पञ्चविधः 'तन्त्रे'-योगप्रधानशास्त्रे, प्रतिपादित इति शेषः, उक्तं च–“स्थानोर्णालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलम, योगाभ्यास इति समयविदः ॥" (षोड० १३-४) इति । स्थानादिषु योगत्वं च "मोक्षकारणीभूतात्मव्यापारत्वं योगत्वम्" इति योगलक्षणयोगादनुपचरितमेव । यत्तु "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्य" .(पातं० यो० सू० २-२९) इति योगाङ्गत्वेन योगरूपता स्थानादिषु हेतुफलभावेनोपचारादभिधीयत इति षोडशकवृत्तावुक्तं तत् "चित्तवृत्तिनिरोधो योगः (पा० यो० सू० १-२) इति योगलक्षणाभिप्रायेणेति ध्येयम् । अत्र स्थानादिषु 'द्वयं' स्थानोर्णलक्षणं कर्मयोग एव, स्थानस्य साक्षादूर्णस्याप्युच्चार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506