Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 423
________________ १३२ करणे सूत्रक्रियाविनाशात्परमार्थतस्तीर्थविनाश एवेति तीर्थोच्छेदालम्बनेनाविधिस्थापने लाभमिच्छतो मूलक्षतिरायातेत्यर्थः || १४ || [ यो०वि०गा० १४] 27/8 सूत्रक्रियाविनाशस्यैवाहितावहतां स्पष्टयन्नाह— सो एस वकओ चिय, न य सयमयमारियाणमविसेसो । एयं पि भावियव्वं, इह तित्थुच्छेयभीरूहिं ॥१५॥ 'सो एस' त्ति । स एष' सूत्रक्रियाविनाशः 'वक्र एव' तीर्थोच्छेदपर्यवसायितया दुरन्तदुःखफल एव । ननु शुद्धक्रियाया एव पक्षपाते क्रियमाणे शुद्धायास्तस्या अलाभादशुद्धायाश्चानङ्गीकारादानुश्रोतसिक्या वृत्त्याऽक्रियापरिणामस्य स्वत उपनिपातात्तीर्थोच्छेदः स्यादेव यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रियाविशिष्टजनसमुदायरूपं तीर्थं न व्यवच्छिद्यते, न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोषः, अक्रियाकर्तुस्तस्य स्वपरिणामाधीनप्रवृत्तिकत्वात्, केवलं क्रियाप्रवर्तनेन गुरुस्तीर्थव्यवहाररक्षणाद् गुण एवेत्याशङ्कायामाह - 'न च स्वयं मृतमारितयोरविशेषः, किन्तु विशेष एव स्वयं मृते स्वदुष्टाशयस्यानिमित्तत्त्वात्, मारिते च मार्यमाणकर्मविपाकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात्, तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमपेक्ष्य गुरोर्न दूषणम्, तदीयाविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूषणमेव । तथा च श्रुतिकेवलिनो वचनम् 'जह सरणमुवगयाणं, जीवाण सिरो निर्कितए जो उ । एवं आयरिओ वि हु, उस्सुत्तं पण्णवेंतो य ।। [ उपदेशमाला - ५१८] । न केवलमविधिप्ररूपणे दोषः किन्त्वविधिप्ररूपणाभोगेऽ (? प्य) विधिनिषेधासम्भवात् तदाशंसनानुमोदनापत्तेः फलतस्तत्प्रवर्तकत्वाद् दोष एव । तस्मात् " स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोषो, वयं हि क्रियामेवोपदिशामो न त्वविधिम्' एतावन्मात्रमपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्गे प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः । एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग्बोधिलाभे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः, अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एवेति । यस्तु श्रोता विधिशास्त्र श्रवणकालेऽपि न संवेगभागी तस्य धर्म श्रावणेऽपि महादोष एव, तथा चोक्तं ग्रन्थकृतैव षोडशके - ' यः श्रृण्वन् सिद्धान्तम्, विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगम्, तदापि यः सोऽचिकित्स्य इति ॥ १॥ . नैवंविधस्य शस्तम्, मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि तदधिकदोषो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506