Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 443
________________ १५२ कश्चिदंशः प्रतिपन्नदेशकालसङ्ख्याभेदः प्रतिमन्यते द्रव्ये वा द्रव्याणि वेति विकल्पसम्भवः, सच्च त्रिविधमुत्पादादि, तच्च द्रव्येणार्यमाणमङ्गीकृतसङ्ख्याभेदमेवात्मलाभं प्रतिपद्यते, द्रव्यं वा द्रव्ये वा द्रव्याणि वेति, न तु कदाचिद् वचनत्रयप्रतिपाद्यद्रव्यव्यतिरेकेणान्यत् किञ्चित् सदस्ति, यतो द्रव्यमित्यपदिष्टे ‘सत् प्रतीयते, द्रव्ये इत्यपि सती, द्रव्याणि च सन्तीत्येवं व्यस्तेषु समस्तेषु च प्रतीयते द्रव्येष्वेव सत्, द्रव्यमाने नियतवृत्तित्वात्, द्रव्यव्यतिरिक्तपदार्थाभावाच्चान्यत्र नोपलभ्यते, यदि स्यादद्रव्यं किञ्चिद् गुणः कर्मादि वा तत्राप्याशङ्केत सतो वृत्तिः, तत् तु नैवास्तीत्ययमर्थोऽनेन भाष्यवचनेन प्रत्याय्यते-असन्नाम नास्ति, असदिति यस्य नाम संज्ञिनस्तत्संज्ञिरूपमसन्नामकं नास्ति, संज्ञिरूपाभावाद् वा संज्ञा नास्ति, परस्परापेक्षत्वात् संज्ञासंज्ञिनोः, एवं चासच्छब्देन गुणाद्यभाव एवोच्यते, स च गुणाद्यभावो द्रव्यमात्रमेव द्रव्यास्तिकस्येत्युक्तेन प्रकारेण द्रव्यार्थिकस्यार्थपदभावना । अन्ये भाष्यमेवं पठन्ति-असन्नाम नास्त्येव सावधारणोऽसतः प्रतिषेधः, सर्वं द्रव्यमिति सञ्जिघृक्षतो द्रव्यास्तिकस्य हि मातृकापदास्तिकाद्यपि सर्वमन्तर्वसतीति, तस्मात् सदित्युक्ते एषामेकत्वद्वित्वबहुत्वानामन्यतमोक्तौ तदवरोधः सन्मात्रत्वादिति । एवं सङ्ग्रहनयेन स्वाभिप्राये द्रव्यास्तिकमात्रतया प्रकाशिते व्यवहारनयः स्वाभिप्रायमाविष्करोति मातृकापदास्तिकोपन्यासेन भा०-मातृकापदास्तिकस्यापि मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वाऽसत् । ___टी०-मातृकापदास्तिकस्यापीत्यादि । धर्मास्तिकायादीनामुद्देशमात्रं मातृकापदास्तिकलक्षणम्, एवं मन्यते व्यवहारः-न द्रव्यमात्रमभेदं सत् संज्ञास्वालक्षण्यादिशून्यं व्यवहर्तृणां लौकिकपरीक्षकाणां धियं धिनोति, व्यवहारार्थश्च वस्त्वभ्युपगमः, स च भेदेन प्रायः साध्यते, त्वयाऽपि च भेद एव प्रदर्शितो द्रव्यं वा द्रव्ये वा द्रव्याणि वेति, एकस्मिन्नर्थे एकवचनं द्वयोरर्थयोर्द्विवचनं बहुष्वर्थेषु च बहुवचनमित्येवं सतो भेदका सङ्ख्या, न च द्रव्यसतोर्भेदस्तद्रव्यमेव सत्सदेव द्रव्यम्, यच्चैकसङ्ख्यावच्छिन्नं सत् तन्न द्वित्वादिसङ्ख्याऽऽश्रयितुं शक्यम्, न ह्येको द्वौ, द्वौ वा एक इत्येवं लोकव्यवहारप्रवणेन भेदोऽभ्युपेयः, किं तद् द्रव्यं धर्माधर्माकाशपुद्गलजीवभेदं गतिस्थित्यवगाहशरीरादिपरस्परोग्रहणाद्युपकारि संज्ञास्वलक्षणादिविविक्तं संव्यवहारप्रापणप्रत्यलं भवति ? निर्भेदं पुनर्वस्तु न काञ्चिद् व्यवहारमात्रामभिमुखीकरोति, भेदप्रधानतायां तु धर्मादीनामन्यतमैकविवक्षायां सत् मातृकापदम्, द्वित्वविवक्षायां सती मातृकापदे, त्रित्वादिविवक्षायां सन्ति मातृकापदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्त्वस्वभावार्पणयैव सन्ति, नान्यथा । धर्मास्तिकायस्वलक्षणं य(त् त) न जातुचिदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506