Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
ऽवगन्तव्यः ॥२॥ (षो० १० श्लो० १४-१५) मण्डल्युपवेशनं सिद्धान्तदानेऽर्थमण्डल्युपवेशनम् । 'तदधिकदोषः' अयोग्यश्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारयितुर्महादोषत्वात् । तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य विधिप्रापणेनैव गुरुस्तीर्थव्यवस्थापको भवति, विधिप्रवृत्यैव च तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् ॥१५॥ (यो०वि०गा० १५) 2718
ननु किमेतावद्गूढार्थगवेषणया ? यद्बहुभिर्जनैः क्रियते तदेव कर्तव्यम्, 'महाजनो येन गतः स पन्थाः' इति वचनात्, जीतव्यवहारस्यैवेदानीं बाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह
मुत्तूण लोगसन्नं, उड्डण य साहुसमयसब्भावं । सम्मं पयट्टियव्वं, बुहेणमइनिउणबुद्धीए ॥१६॥
'मुत्तूण'त्ति । मुक्त्वा ('लोकसंज्ञां'-) 'लोक एव प्रमाणं' इत्येवंरूपां शास्त्रनिरपेक्षां मति 'उड्ढूण य' त्ति-वोड्ढ्वा च 'साधुसमयसद्भावं-समीचीनसिद्धान्तरहस्यं 'सम्यग्'-विधिनीत्या प्रवर्तितव्यं चैत्यवन्दनादौ 'बुधेन'-पण्डितेन 'अतिनिपुणबुद्ध्या' -अतिशयितसूक्ष्मभावानुधाविन्या मत्या । साधुसमयसद्भावश्चायम्-'लोकमालम्ब्य कर्तव्यम्, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥४॥ (ज्ञानसारे २३-४), स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि । सुश्राद्धास्तेष्वपि स्तोकाः, स्तोकास्तेष्वपि सत्क्रियाः ॥२॥ श्रेयोऽथिनो हि भूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मशोधकाः ॥३॥ (ज्ञानसारे २३-५) एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः । किमज्ञसाथैः शतमप्यन्धानां नैव पश्यति ॥४॥ यत्संविग्नजनाचीर्णम्, श्रुतवाक्यैरबाधितम् । तज्जीतं व्यवहाराख्यम्, पारम्पर्यविशुद्धिमत् ॥५॥ यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः । न जीतं व्यवहारस्तदन्धसंततिसम्भवम् ॥६॥ आकल्पव्यवहारार्थम्, श्रुतं न व्यवहारकम् । इतिवक्तुमहत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम् ॥७॥ तस्माच्छुतानुसारेण, विध्येकरसिकैर्जनैः । संविग्नजीतमालम्ब्यमित्याज्ञा पारमेश्वरी ॥८॥"
ननु यद्येवं सर्वादरेण विधिपक्षपांतः क्रियते तदा–'अविहिकया वरमकयं, असूयवयणं भणंति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुअं ॥१॥ इत्यादि वचनानां का गतिः ? इति चेत्, नैतानि वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवतीति तद्भिया न क्रियात्यागो विधेयः प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदपि
૨૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506