Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 18
________________ १४ काव्यमाला। अथेति ॥ स लोकप्रसिद्धः । अग्रविक्रमः प्रधानविक्रमः, दशरथः, दिवानिशमहोरात्रम् ऋषिभिः प्रणीते धर्मे निरूपितान् संयमान् स्मरन् सन् , इद्धं दीप्तमुत्कर्ष प्राप्तं शासनं यस्य तादृशः सन् पुरो नगरीसंबन्धिन्याः श्रियोऽधिष्ठानदेवतायाः शशिरुचिवत्पाण्डुरमाननं विकासयन्नधिपतिरभवत् ॥ भारतीयपक्षे-पाण्डुः कर्ता शशिरुचीत्याननविशेषणम् । पाण्डोर्विशेषणं सदशरथोग्रविक्रमः दशया संपूर्णयौवनैकया सहितश्चासौ रथेनोप्रस्तीतो विक्रमः प्रतापो यस्य स चेत्यर्थकम् । अन्यत्समानम् ॥ श्लेषः । सर्गेऽस्मिन्वैश्वदेवीवृत्तम् ॥ उरः श्रियः स्थलकमलं भुजद्वयं समस्तरक्षणकरणार्गलायुगम् । जयश्रियः कृतकविहारपर्वतौ समुन्नते भुजशिरसी बभार यः ॥ २ ॥ ___ उर इति ॥ यः श्रियो लक्ष्म्याः स्थितिकमलमुरो वक्षः, सकलरक्षाविधानपरिघाद्वितयं भुजद्वयं बाहुद्वन्द्वम् , जयश्रियो वीरलक्ष्म्याः कृत्रिमक्रीडाचलौ समुन्नते उच्चे भुजशिरसी स्कन्धौ बभार ॥ रूपकालंकारः । समुच्चय इति केचित् ॥ परित्रया बहुभरणेन च प्रजामवीवृधद्विधिविहितां यतोऽखिलाम् । ततः प्रजापतिरिति यो मतः सतां ध्रुवं प्रजापतिरपि यूथितां गतः ॥ ३ ॥ परीति ॥ यतो विधिविहितामखिलां प्रजा परित्रया समन्ताद्रक्षणेन बहुभरणेन च अ. वीवृधत् वृद्धिमनैषीत् ॥ ततः कारणात् यो राजा प्रजापतिरिति सतां मतः, ध्रुवं निश्चयेन प्रजापतिः स्रष्टापि यूथितां गतः प्रजापतिसमूहमध्यं पतितः ॥ उत्प्रेक्षा ॥ न संममे दिशि दिशि निर्मलं यशो न पौरुषं रिपुषु वदान्यतार्थिषु । जगत्सु धीर्भुवि न चमूर्जनाशिषि श्रिया सह स्थितिरपि यस्य नायुषः॥ ४॥ नेति ॥ यस्य राज्ञोऽवदातं यशो दिशि दिशि, पौरुषं विक्रमो रिपुषु, वदान्यता बहुप्रदता याचकेषु, धीः भुवनेषु, चमू: सेना पृथिव्याम्, लक्ष्म्या सह आयुषः स्थितिरपि जनाशिषि न संममे ॥ समुच्चयालंकारः ॥ गुणोऽखिलं वसु च परेण तवयं गृहीतमप्यभजत यत्र न व्ययम् । असत्यसंव्यवहृतिलोभविस्मयं परात्तमन्वगमदशेषतः क्षयम् ॥ ५ ॥ गुण इति ॥ यत्र राज्ञि परेण गृहीतमपि आत्मसात्कृतमपि गुणः स्वपरहिताहितविचारणा वसु हिरण्यादि द्रव्यं च अखिलं तद्वयम् , कथं नाशं नाभजत । अलीकलौकिकाचारः ममेदंभावः आश्चर्ये (पूर्व) परैरात्तमशेषतः निर्मूलतः क्षयं विनाशमन्वगमत् ॥ वक्रोक्तिः ॥ अभूद्गुरुर्बहुरुपदेश्यभूमतः स यस्य योऽजनि जगदेकसद्गुरुः । हिते जडे परमहिते च पण्डिते रहस्यमन्त्रयत न पञ्चकं नयम् ॥ ६॥ अभूदिति ॥ यस्य उपदेश्यानां बहुत्वाद्वहुर्गुरुरभूत् , स जगतां लोकानामेकोऽसाधा

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 230