________________
१४
काव्यमाला।
अथेति ॥ स लोकप्रसिद्धः । अग्रविक्रमः प्रधानविक्रमः, दशरथः, दिवानिशमहोरात्रम् ऋषिभिः प्रणीते धर्मे निरूपितान् संयमान् स्मरन् सन् , इद्धं दीप्तमुत्कर्ष प्राप्तं शासनं यस्य तादृशः सन् पुरो नगरीसंबन्धिन्याः श्रियोऽधिष्ठानदेवतायाः शशिरुचिवत्पाण्डुरमाननं विकासयन्नधिपतिरभवत् ॥ भारतीयपक्षे-पाण्डुः कर्ता शशिरुचीत्याननविशेषणम् । पाण्डोर्विशेषणं सदशरथोग्रविक्रमः दशया संपूर्णयौवनैकया सहितश्चासौ रथेनोप्रस्तीतो विक्रमः प्रतापो यस्य स चेत्यर्थकम् । अन्यत्समानम् ॥ श्लेषः । सर्गेऽस्मिन्वैश्वदेवीवृत्तम् ॥ उरः श्रियः स्थलकमलं भुजद्वयं समस्तरक्षणकरणार्गलायुगम् । जयश्रियः कृतकविहारपर्वतौ समुन्नते भुजशिरसी बभार यः ॥ २ ॥ ___ उर इति ॥ यः श्रियो लक्ष्म्याः स्थितिकमलमुरो वक्षः, सकलरक्षाविधानपरिघाद्वितयं भुजद्वयं बाहुद्वन्द्वम् , जयश्रियो वीरलक्ष्म्याः कृत्रिमक्रीडाचलौ समुन्नते उच्चे भुजशिरसी स्कन्धौ बभार ॥ रूपकालंकारः । समुच्चय इति केचित् ॥ परित्रया बहुभरणेन च प्रजामवीवृधद्विधिविहितां यतोऽखिलाम् । ततः प्रजापतिरिति यो मतः सतां ध्रुवं प्रजापतिरपि यूथितां गतः ॥ ३ ॥
परीति ॥ यतो विधिविहितामखिलां प्रजा परित्रया समन्ताद्रक्षणेन बहुभरणेन च अ. वीवृधत् वृद्धिमनैषीत् ॥ ततः कारणात् यो राजा प्रजापतिरिति सतां मतः, ध्रुवं निश्चयेन प्रजापतिः स्रष्टापि यूथितां गतः प्रजापतिसमूहमध्यं पतितः ॥ उत्प्रेक्षा ॥ न संममे दिशि दिशि निर्मलं यशो न पौरुषं रिपुषु वदान्यतार्थिषु । जगत्सु धीर्भुवि न चमूर्जनाशिषि श्रिया सह स्थितिरपि यस्य नायुषः॥ ४॥
नेति ॥ यस्य राज्ञोऽवदातं यशो दिशि दिशि, पौरुषं विक्रमो रिपुषु, वदान्यता बहुप्रदता याचकेषु, धीः भुवनेषु, चमू: सेना पृथिव्याम्, लक्ष्म्या सह आयुषः स्थितिरपि जनाशिषि न संममे ॥ समुच्चयालंकारः ॥ गुणोऽखिलं वसु च परेण तवयं गृहीतमप्यभजत यत्र न व्ययम् । असत्यसंव्यवहृतिलोभविस्मयं परात्तमन्वगमदशेषतः क्षयम् ॥ ५ ॥
गुण इति ॥ यत्र राज्ञि परेण गृहीतमपि आत्मसात्कृतमपि गुणः स्वपरहिताहितविचारणा वसु हिरण्यादि द्रव्यं च अखिलं तद्वयम् , कथं नाशं नाभजत । अलीकलौकिकाचारः ममेदंभावः आश्चर्ये (पूर्व) परैरात्तमशेषतः निर्मूलतः क्षयं विनाशमन्वगमत् ॥ वक्रोक्तिः ॥ अभूद्गुरुर्बहुरुपदेश्यभूमतः स यस्य योऽजनि जगदेकसद्गुरुः । हिते जडे परमहिते च पण्डिते रहस्यमन्त्रयत न पञ्चकं नयम् ॥ ६॥
अभूदिति ॥ यस्य उपदेश्यानां बहुत्वाद्वहुर्गुरुरभूत् , स जगतां लोकानामेकोऽसाधा