________________
२ सर्गः]
द्विसंधानम् ।
रणः सञ्छ्रेष्ठो गुरुरजनि ॥ यो हिते हेयोपादेयविवेकविकले जड़े मनोवृत्तेरकुटिलस्वभावत्वाद्धृदयग्रन्थिविनिर्मुक्तत्वान्मूर्खत्वाद्वा, परं केवलमहिते विरुद्ध परैररातिभिर्महिते मणिहिरण्यादिना संतोष्य भेदिते वा पण्डिते अपकृतत्वादपकारं स्मारं स्मारं भेदकत्वात् परमिलितत्वाद्वा, रहस्येकान्ते पञ्चकं नयं नामन्त्रयत । एतेन नरपतेराकारादिना जनानामन्तर्मनःपरीक्षालक्षणकौशल्यमुपदर्शितम् । उक्तं च-'आकारैरिङ्गितर्गत्या चेष्टया भाषणेन च । नेत्रवऋविकारेण गृह्यतेऽन्तर्गतं मनः ॥' नयपश्चकं च-कर्मणामारम्भो. पायः, पुरुषद्रव्यसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति । उक्तं च-सहायः साधनोपायौ देशकालबलाबलम् । विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इध्यते ॥' समुच्चयालंकारः ॥ खमर्पयन्गुरुमधिदेवतामिव स्वबान्धवं गुरुमिव बह्वमन्यत । सदापि यः स्वमिव सहायमास्तिकः कुलोचितं सुहृदमिवानुजीविनम् ॥ ७ ॥
स्वमेति ॥ य आस्तिकः स्वं द्रव्यमर्पयन् गुरुं स्वेष्टदेवतामिव, स्वभ्रातरं गुरुमिव, सहायं स्वमिव, कुलोचितमनुजीविनं मित्रमिव, सदापि बह्वमन्यत । उपमा ॥ यथायथं विधिषु चतुर्विधानया व्ययुज्यत क्षणमपि राजविद्यया । नियुक्तया न च यदुपायचिन्तया विमुच्यते क्वचिदपि यो न सेनया ॥८॥
यथेति ॥ 'आन्वीक्षक्यात्मविज्ञानं धर्माधर्मों त्रयीस्थितौ । अर्थानौँ तु वार्तायां द. ण्डनीतौ नयानयौ ॥' इत्येवं यथायोग्यं विधिषु समुत्पन्नकार्येषु नियुक्तया चतुःप्रकारया आन्वीक्षिकीत्रयीवार्तादण्डनीतिलक्षणया राजविद्यया उपायचिन्तया सामादिस्वभावया च यस्मात्कारणात्क्षणमपि यो न व्ययुज्यत । तस्मात्कारणात्वचिदपि सेनया मातङ्गतुरगरथपदातिरूपया यो न विमुच्यते । समुच्चयः ॥ उपाददे परसुखदुःखचिन्तया न भूतिषु क्वचिदुदसिच्यत स्वयम् । प्रमाद्यति स्म न विषसाद योगिवद्दिवानिशं विधिषु विभज्य यः स्थितः।।९।।
उपादद इति ॥ परेषामाश्रितानामनाथानां च हिताहितयोश्चिन्तया 'केनोपायेनायं जनो दुःखेनापाक्रियते सुखेनापाक्रियते' इति परामर्शेन यः स्वयं परोपदेशानपेक्षमुपाददे जगृहे । तथा भूतिषु संपत्सु क्वचिदपि स्थाने नोदासच्यत गर्वेणानुभूयते स्म । योगिवदौदासीन्यावलम्बिमुनीन्द्रवत् प्रमत्तो न बभूव विषण्णो न बभूव । विधिषु धर्मार्थकामलक्षणेषु अहोरात्रं विभज्य यो राजा स्थितः । समुच्चयः ॥ द्विषो जगद्विलयभयान्यपातयन्यसेवत स्मरमपि संततीच्छया । गृहीतवान्करमपमित्य याचितुं स्वजन्म यः समगमयत्परार्थताम् ॥ १० ॥ द्विष इति ॥ यो लोकविनाशभीत्यारीन्व्यापादयामास । संतत्यभिलाषेण काममपि से.