________________
काव्यमाला।
वितवान् , याचित्वा दातुं सिद्धा यं जगृहे, इत्यनया युक्त्यात्मोत्पत्तिं साफल्यतामनैषीत् । समुच्चयः॥ जिगाय षड्दिधमरिमंन्तराश्रयं ततः स्वयं त्यजति न षड्डिधं बलम् । न यस्य यद्व्यसनमदीपि सप्तकं स्थिराभवत्प्रकृतिषु सप्तसु स्थितिः ॥ ११ ॥
जिगायेति ॥ यतोऽयं अन्तराश्रयं षडिधम् ‘कामः क्रोधश्च मानश्च लोभी हर्षस्तथा मदः । अन्तरङ्गोऽरिषड़र्गः क्षितीशानां भवत्ययम् ॥' इत्युक्तभेदं रिपुं जितवान् । ततः स्वयं नृपतिः घडिधम् ‘श्रेणं दौर्ग च सौहार्द मौलं भृतकमाटवम् । षड्डिधं च बलं प्राहुर्बुधा नीतिविचक्षणाः ॥' इत्युक्तभेदं बलं न त्यजति स्म । यद्यस्मात् यस्य सप्तकं 'दण्डपारुध्यकंदर्पवाक्पारुष्यार्थदूषणम् । मद्यस्त्रीद्यूतपापद्धितेति व्यसनसप्तकम् ॥' इत्युक्तभेदं व्यसनं नादीपि । तस्मात्तस्य सप्तसु 'स्वाम्यमात्यो सुहृत्कोशौ राष्ट्र दुर्ग तथा बलम् । प्राकृतं सप्तकं प्रोक्तं नीतिशास्त्रविशारदैः ॥' इत्युक्तेषु प्रकृतिषु स्थितिः स्थिराभवत् ॥ विरुद्धलवालंकारः॥ विवयं यः प्रियमहिषीं युवाधिपं स्वमप्यतः परमुपनीय लक्ष्यताम् । सदोपधाविधिभिरमात्यमेकशो यथोचितं पदमनयद्विशोधितम् ॥ १२ ॥
विवज्येति ॥ यो नृपतिः पट्टराज्ञी मुख्यकुमारमात्मानमपि वर्जयित्वा अत एवैभ्योऽन्यं सर्वदा 'छलेन परचित्तानां धर्मार्थकामभीतिषु ।परीक्षणं विधीयेत सोपधा कथ्यते बुधैः ॥" इत्युक्तलक्षणाया उपधाया विधानैर्लक्ष्यतां विशोध्यभावममात्यं नीत्वा विशोधितं निर्बाधं यथायोग्यं पदं अमात्य-सचिव-महत्तर-पुरोहित-दण्डनायकादिपदवीमेकमेकं नीतवान् । समुच्चयः ॥ वणिक्पथे खनिषु वनेषु सेतुषु व्रजेषु योऽहनि निशि दुर्गराष्ट्रयोः । गुणाधिकं धनमववर्धदुद्धतं यशोधनं ध्रुवमुपचेतुमुज्ज्वलम् ॥ १३ ॥ __ वणिगिति ॥ य उज्ज्वलं शुभ्रम् । उद्धतमुल्बणम् । यशोधनं नेतुम् । गुणैरौदार्यादिभिः प्रचुरम्, कनकादिकं वणिजां मार्गे रत्नोत्पत्तिस्थानेषु कान्तारेषु समुद्रादितटेषु गोकुलेषु यस्य नियोगात्परे दुःखं गच्छन्ति तस्मिन्दुर्गे पशुधान्यहिरण्यसंपदा राजते शोभते तत्र राष्ट्र वृद्धि प्रापयामास । उत्प्रेक्षा ॥ अनारतं तिसृषु सतीषु शक्तिषु त्रिवर्ग्यपि व्यभिचरति स्म न स्वयम् । पदातयः किमु किमरातयः सुताः सहायता किमु किल यस्य बन्धुता ॥ १४ ॥ ___ अनारेति ॥ यस्य सततं 'तिस्रो हि शक्तयः स्वामिमन्त्रोत्साहोपलक्षिताः । स्वपरज्ञाविधायिन्यो राज्ञां राज्यस्य हेतवः ॥' इत्युक्तेः प्रभुमन्त्रोत्साहरूपासु तिसृषु शक्तिघु, सतीषु, त्रिवर्गी धर्मार्थकामलक्षणानां त्रयाणां वर्गाणां समाहारोऽपि, स्वयमात्मना, न व्यभिचरति परस्परं परितत्याज । धर्ममभिभूय नहि तादृशमर्थोपार्जनम्, तन्मूलत्वाद