SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ २ सर्गः] द्विसंधानम्। . र्थस्य । यथोक्तमर्थोपार्जनमन्तरेण न यथोक्तकामानुष्ठानम्, कामानुष्ठानमन्तरा न संतानोत्पत्तिः, संतानादृते नार्थोपयोगः, अर्थोपयोगेन विना नो धर्मलाभ इति भावः । अपरार्धे साध्याहार्यत्र । अतएव उ संबोधने, किल आश्चर्ये, किमाक्षेपे । किं पदातयो व्यभिचरन्ति, अपि तु न।एवं किं शत्रवः, किं पुत्राः, किं मित्रसमूहः, किं बान्धवसंघः ॥ आक्षेपालंकारः ॥ भुवस्तलं प्रतपति संभ्रमन्रविः शशी चरन्वयमभिनन्दयत्ययम् । चरैः स्थितः पुरि सचराचरं जगत्परीक्ष्य यः स्म तपति संधिनोति च ॥१५॥ भुवेति ॥ रविशशिनौ स्वयं चरन्तौ जगत्प्रतापानन्दहेतू । अयं तु पुरि स्थित एव चारैर्जङ्गमस्थावरं जगत्परीक्ष्य संतापप्रीणने चकारेति सूर्यचन्द्रावतिशेत इत्यतिशयालंकारः॥ कृषीवलं कृषिभुवि बल्लवं बहिर्वनेचरं चरमटवीष्वयुक्त यः। वणिग्जनं पुरि पुरसीम्नि योगिनं नियोगिनं नृपसुतबन्धुमन्त्रिषु ॥ १६ ॥ कृषीति ॥ यः क्षेत्रको कर्षकं, बहिर्गोपालं, वनेषु भिल्लं, पुरि किराटकवेषवन्तं, नगरसीम्नि कौलिकादिवेषवन्तं, राजसुतबान्धवसचिवेषु व्यापारिणं गूढदूतं न्ययुत ॥ समुच्चयः ॥ वधूगृहे बधिरकिरातवामनं स्वरक्षया परबलसंग्रहेण च । प्रयुक्तवान्प्रणिधिमनाकुलं परानबोधि यः प्रतिबुबुधे च नापरैः ॥ १७॥ वध्विति ॥ रामागृहे बधिरं, किरातं विकलाङ्गम्, कुब्जकम् , आत्मरक्षया रिपुसैन्यपरिकलनेन च अनाकुलं चरं प्रयुक्तवान् यः परानबोधि, अपरैश्च न प्रतिबुबुधे ॥ समुच्चयः ॥ अवाहयत्तुरगमवाहितं गजं न चाविशद्वनमविगाहितं हितैः । ददर्श यः सपदि न सिद्धतापसं समाययौ न तमवरोधमेककः ॥ १८ ॥ अवाहेति ॥ यः, हितैः परीक्षितान्तःकरणैनरैः, अवाहितमनधिरूढम् , तुरगं गजं च, नावाहयत्न चालयामास । अविगाहितमव्यालोडितम्, वनं न प्रविवेश । सपदि सहसा, सिद्धतापसं तपस्विवेषं न ददर्श । तं लोकप्रसिद्धम् अन्तःपुरम्, एकक एकाकी सन् , न गतवान् । अन्तःपुररक्षिणीभिवृद्धाभिः सहावरोधमगमत् ॥ समुच्चयः ॥ इदं मया नयमपदिश्य वर्णितं शरं तु यः क्षिपति न यावदाहवे । शरासनं शरमिषुधिं परोऽक्षिपत्परं विदुर्यमनपवर्तकं महः ॥ १९ ॥ __ इदमिति ॥ इदं पूर्वोक्तं मया कविना नयमाश्रित्य वर्णितम् । अधुना विक्रमो वर्ण्यतेयो राजा यावत् सङ्ग्रामे शरं न क्षिपति, तावत् परः शत्रुः शरासनं धनुः शरं बाणम् इषुधिं भवाम् अक्षिपन्मुक्तवान् । परं केवलं यं राजानम् अनपवर्तकं नित्यं महस्तेजो विदुः । नीतिमन्त इति शेषः ॥ विरोधः ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy