SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १८ काव्यमाला | न विक्रमः शरभनिपातसंनिभः शृगालवद्भयबहुलो नयो न यः । न निन्द्यते स्वयमनुकम्प्यते परैर्न येन वा चरितमधत्त तादृशम् ॥ २० ॥ न वीति ॥ येनं चरितेन विक्रमः शरभनिपातसंनिभः शरभो विवेकविकलो लीलया किल विचित्रोल्लवनविधानोपपन्नो नखराङ्कुरैर्मृतमातङ्गगण्डस्थलं विदार्य चरणचतुष्टयमध्ये तं च निक्षिप्य पुष्टोऽभवत् । क्रमतो मृतकुथितगजेन्द्र पूयसंभवैर्जन्तुभिर्विदार्यमाणो मृतः तद्वदविचारितविहितो नाभवत्, नयः शृगालवत् । शृगालस्य हि 'समर्थजन्तुजातमालोकमालोकमन्तर्मुखाकरतया पर्यालोचं चकितचकितत्वेन प्रपलायम्' इति नयः । तद्वत् भबहुल नाभूत्, स्वयं परैर्न निन्द्यते, नाप्यनुकम्प्यते, तादृशं चरितं यो राजा अधत्त धृतवान् ॥ समुच्चयः ॥ यदा व्यरित्सदरिमदित्सताथवा धनं तदारुषदतुषच्च यः परम् । प्रकोपसंमदविषयो गुणः फलं विनोद्गमाद्वट इव यस्य संददे ॥ २१ ॥ यदेति ॥ यदा शत्रुं व्यरित्सद्धन्तुमैच्छत्, अथवा धनम्, अदित्सत दातुमैच्छत्, परं केवलम्, तदा यो राजा अरुषत्, अतुषच्च । उद्गमाद्विना कुसुममन्तरेण न्यग्रोध इव यस्यावनीशस्य रोषतोषगोचरो गुणः फलं समयच्छत् ॥ समुच्चयः ॥ प्ररोपयन्नयभुवि मूलसंततिं प्रसारयन्दिशि बहुशाखमन्वयम् । फलं दिशन्विपुलमपुष्पयापनं जनस्य यः समजनि कल्पभूरुहः ॥ २२ ॥ प्ररोपेति ॥ यो नृपो नीतिभूमौ मूलस्य 'भाण्डागारी चमूभर्त्ता दुर्गाध्यक्षः पुरोहितः । कर्माध्यक्षोऽथ दैवज्ञो मन्त्री मूलं हि भूभृताम् ॥' इत्युक्तस्य संतानं प्ररोपयन् दिशि बह्वयः शाखाः पुत्रपौत्रादयो यस्मिंस्तथाभूतम् अन्वयमान्नायं प्रसारयन्, अपुष्पयापनमनायासलभ्यं विपुलं प्रचुरं फलं प्रयच्छन्, सञ्जनस्य कल्पवृक्षः समजनि । कीदृशः सुरभूरुहः । न्याय्यभूमौ मूलसंततिं नेत्रसमूहं प्ररोपयन्नधोऽधो नयन् प्रचुरविटपस्थानम् अन्वयं बुधं विस्तारयन्, न पुष्पवैद्यापना कालगमनिका यत्र तथाभूतं फलं विपुलं ददत् ॥ रूपकम् ॥ , जलाशयं दिशि दिशि पङ्कजीविनं नवोत्थितं नियतिषु देशकालयोः । विमर्द्य षष्टिकमिव विद्विषं भुवि प्ररोपयन्नतुलमलब्ध यः फलम् ॥ २३ ॥ जलेति ॥ यो नृपः जड़चित्तं पापजीविनं देशकालयोर्नियतिषु भुवि दिशि दिशि नवोत्थितं नूनमुत्थितं विद्विषं शत्रुं विमर्द्य स्वस्थानात्प्रचाल्य प्ररोपयन् । भुवि दिशि दिशि जलाश्रयं कर्दमजीविनं नूतनमुत्पन्नं षष्टिकं व्रीहिविशेषं विमर्थ मलित्वेव | अतुलं फलमलब्ध ॥ एतेन नीतिकौशल्यं दर्शितम् ॥ श्लेषोपमा ॥ सुहृज्जनं क्रशयति यः स्म कर्कशं पदानतं द्विषमपि तं व्यगाहत । निजं मलं क्षिपति हि वार्धिरुद्धतं नदीनदं समुपनतं विगाहते ॥ २४ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy