________________
२ सर्गः ]
द्विसंधानम् ।
१९
सुहृनेति ॥ यो नृपः कर्कशं निर्दयं सुहृज्जनं मित्रलोकं क्रशयति स्म तनूचकार । पदानतं चरणन्यस्तमस्तकं तं द्विषमपि व्यगाहत स्वीचकार । हि यथा वार्धिः समुद्र उद्धतमुत्कर्ट निजमात्मीयमपि मलं क्षिपति समुपनतं सम्यक्प्रह्वीभूतं नदीनां नदानां समाहारं स्वीकरोति ॥ अर्थान्तरन्यासः ॥
विवर्धितानति कठिनान्नखानिव प्रियानपि स्खलितगतीन्समच्छिनत् । पुपोष यस्तमिह न येन विक्रिया भवत्यपि स्वपठितमन्त्रतो भयम् ॥ २९॥
विवेति ॥ यो नृपः वृद्धिं प्रापितान् अतिनिष्ठुर हृदयान् स्खलिते पाते गतिः प्रवृत्तिर्येषां तथाभूतान् प्रियानपि विवर्धितान् अतिकठिनान् स्खलिता प्रतिषिद्धा गतिर्गमनं यैस्तथाभूतान् प्रियान् करचरणशोभाविधायित्वेन मनोहरानपि नखानिव समच्छिनत् उच्चपदादपातयत् । येन पोषितेन विक्रिया न भवति तं नरमिह पुपोष । युक्तमप्येतत् । यतो गुरूपदेशमन्तरेणात्मनाधीतान्मन्त्राद्भयं स्यात्, तथा स्ववर्धितेभ्यः पापिभ्योऽपि ॥ अर्थान्त
रन्यासः ||
अनुद्धतान्युवजरतः श्रुतागमाञ्जितश्रमान्नयविनयान्वितान्सुतान् । अयोजयन्सममविरोधयन्परैश्चकार यः प्रकटमकर्कटस्थितीन् ॥ २६ ॥
अनुद्धेति ॥ अनुद्धताननुत्कटान् श्रुत आकर्णित आगमो व्याकरणतर्कषड्दर्शनाभिप्रायसिद्धान्तस्वभावो यैस्तथोक्तान्, जितश्रमान् विहितशस्त्रशास्त्राभ्यासान्, नीतिप्रश्रययुक्तान् युववृद्धान् पुत्रान् परैः सह अघटयन् अविरोधयन् यो राजा प्रकटं यथा स्यातथा न विद्यते कर्कटस्येव कुलीरस्येव स्थितिर्येषां तथाविधान् अकरोत् । कर्कटपुत्रा हि पितरं भक्षयन्ति ॥
ऋतं वचोऽविसमुदितं क्रियाफलं कृतज्ञतां स्वविभवसंमितां मताम् । जिगीषुतां दिगवधृतां कुटुम्बितामशेषभूभरणभरां बभार यः ॥ २७ ॥
ऋतमिति || यो नृपः वच ऋतं सत्यम्, क्रियाफलमविसंवादि, स्वविभूतिसंमितां कृतज्ञताम्, इष्टां दिक्ष्ववधृतां विजेतृताम्, समस्तभूमिपोषणाधारां कुटुम्बितां बभार ॥ समुच्चयः ॥
प्रसेदुषि स्थितिमति यत्र राजनि ध्वजांशुकान्यपि न जहार मारुतः । स चातकः सतततृषातुरोऽश्रुवाः पतिंवरावलयपरिग्रहे परम् ॥ २८ ॥
प्रेति ॥ यस्मिन् प्रसन्ने स्थैर्यवति राजनि सति, वायुरपि पताकिकावस्त्राणि न जहार । स प्रसिद्धश्चातक (एव) अनवरततृषाव्यग्रः परं केवलं कन्याकंकणाङ्गीकारे बाष्पजलम् आसीत् ॥ परिसंख्या ॥
,
बलेन यः स्वयमनिलोऽपि नानिलः सनीतिरप्यभवदनीतिगोचरः । अशीतकः शशिशिशिरः समेखलः समेखलस्त्विति न जनेन दूषितः ॥२९॥