SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। - बलेनेति ॥ बलेन सामर्थ्येन स्वयं यो राजा 'अनिलो वायुरपि स कथं नानिलः' इति विरोधः । न विद्यते इला भूमिर्यस्य तादृशो भूमिपरित्यक्तो नेत्यर्थः ॥ 'सनीतिः नीत्या सह वर्तमानोऽप्यनीतिगोचरः' इति विरोधः । न ईतयः ‘अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः॥' इत्युक्ता गोचरा लोचनविषया यस्य तादृश इत्यर्थः ॥ 'शशीव चन्द्र इव शिशिरः क्षमया शीतलः, न शीतकः' इति विरोधः । न शीतको मन्दः कार्येष्वमन्द इत्यर्थः ॥ समे औदासीन्यावलम्बिनि पुरुषे खलो दुर्जनः, तु पुनः समे खलो दुर्जनोऽभवदिति कृत्वापि जनेन न दूषितः इति विरोधः । सह मेखलया कटिसूत्रेण वर्तमानः, समे साधावखल: प्रतिपालकः इति हेतोः 'दुष्टानां निग्रहो नीत्या शिष्टानां प्रतिपालनम् । राज्ञां धर्मोऽयमेवासौ नान्यः कश्चिच्च विद्यते॥' इत्युक्तेर्जनैर्न दूषित इत्यर्थः ॥ श्लेषविरोधौ ॥ न्याय्यं सुखावहमहो भुवि धर्मराज्य- . मित्यात्मनः प्रथयतः प्रजयानुभावम् । तस्याभवत्प्रियतमा गुणपक्षपाता लक्ष्म्याः स्वयंवरकृता प्रथमा सपत्नी ॥ ३० ॥ .न्याय्यमिति ॥ अहो आश्चर्ये भुवि सुखमावहति तथोक्तम्, धर्मात्प्राप्तम्, धर्मेणोपलक्षितं प्राप्तं वा, राज्यम्, न्यायादनपेतम् यथोक्तप्रजापालनलक्षणम् इति आत्मनः स्वस्य, अनुभावं माहात्म्यम्, प्रजयाष्टादशप्रकृत्या, प्रथयतः . ख्यापयतः तस्य प्रथमा स्वयंवरकृता प्रियतमा भार्या गुणानामौदार्यादीनां पक्षपातादङ्गीकारात् लक्ष्म्याः सपत्नी बभूव ॥ भारतीयपक्षे-तस्य पाण्डोः, धर्मस्य पाण्डो राज्यमिति विशेषः ॥ श्लेषः ॥ वसन्ततिलकावृत्तम् ॥ कलागमानामधिदेवतेव वेलेव लावण्यरसाम्बुराशेः। अन्तनिधि रिव वीरभूमिर्या वन्द्यतेऽद्यापि सती सतीभिः ॥ ३१ ॥ कलेति ॥ अद्यापि सांप्रतमपि वीराणां शूराणामुत्पत्त्यर्थ भमिः शरोत्पत्तिस्थानं या सती पतिव्रता, कलानां लिखितपठितगणितवेणुवीणादीनां चतुःषष्टेः आगमानां तर्कव्याकरणसिद्धान्तादीनां च इष्टदेवतेव, शरीरसमुदायशोभावारिवारिनिधेः वेला भरितमिव, अन्तर्गतो निधिर्यस्या तादृशी भूमिरिव, सतीभिः पतिव्रताभिर्वन्द्यते नमस्क्रियते स्तूयते, वा ॥ उत्प्रेक्षा ॥ उपजातिवृत्तम् ॥ या कौशल्या रूपशीलेन चार्वी दीनाङ्काकुन्त्यागसांनिध्ययोगात् । दीनेष्वर्थिष्वाददेलोभवादान्नासौ राज्ञः स्वान्तमन्त हार ॥ ३२ ॥ या कौशेति ॥ असौ कौशलो जनपदसमानशब्दः क्षत्रियः, तस्यापत्यं स्त्री कौशल्या। 'वृद्धकोशला-' इति व्यङ् । राज्ञो दशरथस्य स्वान्तं मानसम् अन्त आन्तरं हृतवती ।
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy