________________
३ सर्गः ]
द्विसंधानम् ।
२१
या रूपशीलेन चार्वी मनोज्ञा सती दीनेष्व किंचित्करेषु, अर्थिषु, दीनां म्लानां काकुं मनोभिप्रायं वक्रोक्तिं वा न लोभस्य वाद. उक्तिर्यत्र तस्मात् त्यागसांनिध्ययोगात् त्यागनैकट्यसंबन्धात् नाददे || भारतीयपक्षे - असौ कुन्ती राज्ञः पाण्डोः स्वान्तमन्तर्जहार । कौ क्षितौ शल्या शल्यमिव शल्या आत्मीयरूपशीलेनान्यासां कमनीयकामिनीनां शल्योत्पादकत्वात् । यतो रूपशीलेन चार्वी । अथवा कुशलभावः कौशली तया । एतेन वेणुवीणादीनां चतुःषष्टिकलानां परिज्ञानलक्षणं दक्षत्वं प्रदर्शितम् । रूपशीलेन च चार्वी मनोहरा या दीनोऽगविष्ठोऽङ्को लक्षणं यस्यास्तादृशी सती आगसामपराधानाम् निध्ययोगात् समूहासंबन्धाद् दीनेष्वर्थषु लोभवादान् न आददे ॥ श्लेषः ॥ शालिनीवृत्तम् ॥
सौन्दर्यवर्येऽप्यवरोघवर्गे स्थिते विशेषेण स तामियेष |
विहाय चूतस्य समस्तमङ्गं पुष्पोद्गमं चुम्बति हि द्विरेफः ॥ ३३ ॥ सौन्दर्येति ॥ स राजा सौन्दर्यवर्ये लावण्यप्रधाने अवरोधवर्गे स्थितेऽपि सति विशेषेण रूपशीलादिव्यवच्छेदिगुणेन तां राज्ञीमियेष । युक्तमेतत् । द्विरेफो भ्रमरः चूतस्याम्रस्य समस्तमङ्ग शाखाबुध्नादि विहाय पुष्पोद्गमं मञ्जरीमकरन्दं चुम्बति आस्वादयति ॥ अर्था'न्तरन्यासः ॥ उपजातिवृतम् ॥
इति रतिमनयानुरुध्यमानो हृदि शरणोत्तममङ्गलं नमस्यन् । व्यसनरहितराजराज्यभारः स्वमुपचिकाय यशोधनंजयेन ॥ ३४ ॥ इति श्रीधनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयापरनाम्नि द्विसंधाने काव्ये दशरथपाण्डुराजवर्णनं द्वितीयः सर्गः समाप्तः ॥
इतीति ॥ इत्यमुना प्रकारेण अनया पहराइया रतिं सुरतोत्सवम् अनुरुध्यमानः कामयमानः शरणयोग्यत्वाच्छरणम् उत्तमैः सर्वज्ञैः प्रणीतत्वादुत्तमम् मलं पापं गालयतीति मङ्गलं धर्मम् हृदि नमस्यन् व्यसनै रहितो राजा यत्र तथोक्तो राज्यभारो यस्य स राजा जयेन अरितिरस्करणेन स्वमात्मीयम् यश एव धनं उपचिकाय । वृद्धिं नीतवान् ॥ अथवा धनंजयेन कविना स्वं यश उपचिकाय वृद्धिं प्रापितवान् ॥ पुष्पिताग्रावृत्तम् ॥
इति श्रीदाधीच जातिकुद्दालोपनामक श्री च्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधान काव्यटीकायां राजवर्णनो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः ।
अथास्य राज्ञः प्रियधर्मपत्नी धर्मोऽस्ति वन्ध्यः किमितीव मत्वा । रजःकणं तत्र फलाय काले वबन्ध चूताग्रिममञ्जरीव ॥ १ ॥ अथेति ॥ अथ अस्य राज्ञः प्रिया धर्मार्थे पत्नी 'किं धर्मो बन्ध्योऽस्ति' इति इव