________________
२२
मत्वा तत्र काले तारुण्यभरप्राप्तिसमये रजःकणमार्तवलवम् फलाय संतानाय, आम्राग्रमज्ञ्जरी वसन्तकाले फलोत्पत्त्यै परागकणमिव, बबन्ध ॥ उपमा ॥ सर्गेऽस्मिन्वृत्तमुपजातिः ॥ इन्द्रो विभूत्या स बृहस्पतिर्वा बुद्ध्या सुतः स्यादिति वंशवृद्धाः । सिद्धायमन्त्रेण निरुप्तवन्तश्चरुं स दिया ववृधे च पौरः ॥ २ ॥
काव्यमाला ।
इन्द्र इति ॥ विभूत्या संपदा इन्द्रतुल्यः, अथवा बुद्ध्या बृहस्पतिः, सुतः पुत्रः स्यादिति हेतोः वंशस्थवृद्धाः सिद्धाय परमेष्ठिने मन्त्रेण बीजाक्षरादिलक्षणेन अथवा सिद्धो निष्पन्नः यः शुभावावधिर्येन तेन मन्त्रेण चरुमिष्टदेवताबलिविशेषम् निरुप्तवन्तो निश्चयेन दत्तवन्तः ॥ स पौरो नागरो जनः दिष्टया महोत्सवेन ववृधे ॥ समुच्चयः ॥
बोधातिरेकाय सरस्वतीव लक्ष्मीरिवानेकविधार्थं हेतोः ।
गर्भ महिष्याधित भूमिभर्तुः पुण्यस्य पुष्पोद्गम एष सर्वः ॥ ३ ॥
बोधेति ॥ महिषी पट्टराज्ञी भूमिभर्तुरवनीशस्य बोधातिरेकाय ज्ञानाधिक्याय सरस्वतीव नानाप्रकारद्रव्यनिमित्तं लक्ष्मीरिव, गर्भम् आधित धृतवती । युक्तमेतत् । एष सर्वः पुण्यस्य पुष्पोद्गमः अस्ति ॥ अर्थान्तरन्यासः ॥
दीप्तान्तरङ्गा शिखिनारणीव निधानगर्भेण भुवः स्थलीव ।
सत्त्वेन तेन स्तिमितप्रकाशा जज्ञेऽलसोद्योगवतीव देवी ॥ ४ ॥
दीप्तेति ॥ तेन गर्भस्थितेन प्राणिना अलसा मन्दा सती देवी उद्यमयुक्तेव शिखिना वह्निना अरणीव दीप्तान्तरङ्गा इद्धान्तःकरणा, निधानगर्भेण निधियुक्तमध्येन भुवःस्थलीव स्थिरप्रकाशा जज्ञे ॥ उपमा ॥
आपाण्डुरं रागनिबद्धमङ्गमुत्साहबाहुल्यमुदात्तमोजः ।
विश्वं जगद्वीप्सुरिवोदुवाह द्यौरभ्र लिह्यभ्युदितार्यमेव ॥ ५ ॥
आपेति ॥ सा देवी तथा विश्वं जगद् वीप्सुः व्याप्तुमिच्छुरिव ईषत्पाण्डुरम् अनुरागयुक्तम् अङ्गम् उत्साहस्य बाहुल्यं यत्र तादृशम् उदात्तमुत्कटम् ओजो धातूनां तेज उदुवाह बभार । यथा अभ्रैर्मेधैरीषल्लिप्ता अलिप्ती । 'क्तादल्पाख्यायाम्' इति ङीष् । अभ्युदित उद्गतः अर्यमा सूर्यो यस्यां तादृक् द्यौः इर्षच्छ्रतम्, लौहित्ययुक्तम्, उत्कृष्ट सा लक्ष्मीः शोभा यत्राहनि तस्योत्साहस्य सश्रीकदिनस्य बाहुल्यं यस्मात्तादृशम् अङ्गम् उदात्त मुल्बणम् ओजस्तेजश्च जगद् विश्वं वीप्सुरिव दधार ॥ श्लेषोपमा ॥
कुमारभृत्याकुशलः स तस्मिँल्लोकस्थितिं प्रत्यवधातुमैच्छत् । अस्पृश्यमग्न्यादिभिरप्रधृष्यमन्येन तश्यमविष्यमाहुः ॥ ६ ॥
कुमारेति ।। तस्मिन्नापाण्डुरादिधरणकाले स राजा कुमाराणां भृत्यायां कुशल: स राजा लोकव्यवहारं प्रति अवधानीकर्तुम् ऐच्छत् यस्मात्तस्मात् लोकवृद्धाः तस्य राज्ञो