SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] द्विसंधानम् । २३ वंशे भवम् अम्यादिभिरष्टाभिर्देवव्यसनैः अस्पृश्यम् अन्येन अरिजातेन अप्रधृष्यमजेयम् न विषेण वध्यं च आहुः ॥ जाने हि मृत्स्नाभ्यवहारमात्रं मातुः प्रकाश्य च्छलमन्तरात्मा । समुद्रवेलाजलसिक्तसीमां गर्भस्थितः स ग्रसते स्म भूमिम् ॥ ७ ॥ जान इति ॥ स गर्भस्थ सत्वः अन्तरात्मा अव्यक्तरूपः सन् , मातुः मृत्स्नाभक्षणमात्रं छलं प्रकाश्य समुद्रस्य वेलाजलेन सिक्ता सीमा यस्यास्तां भूमि ग्रसते स्म इति स्फुटमहं जाने ॥ उत्प्रेक्षालंकारः ॥ अव्यक्तभावोऽयमलब्धदेहस्तथाधितिष्ठन्नपि गर्भभूमिम् । कोऽप्यकुरो बीजमिवानुभावात्स्वजन्महेतुं कुलमुद्दभार ॥ ८ ॥ अव्यक्तेति ॥ अप्रकटपरिणामः अलब्धशरीरः गर्भाशयमधितिष्ठन्नप्ययं सत्वः माहात्म्यात् आत्मोत्पत्तिकारणम् अन्वयम्, गुप्तसत्ताकः अलब्धदेहः मध्यावनीमधितिष्ठन् सन् अनिर्वचनीयोऽपि प्रथमोद्भिन्नसूचिकः स्वजन्महेतुं बीजमिव दधे ॥ उपमा ॥ सर्वज्ञमभ्यर्च्य महामहेन व्यधत्त तस्याः क्रियया महत्या । यथोचितं पौंस्नवनादि कर्म धर्मोपधाशुद्धविधिः पुरोधाः ॥ ९ ॥ सर्वज्ञेति ॥ 'आरभ्य संक्रान्तिदिनं हि यावन्मासाष्टमस्यावधिमुत्सवेन । पुत्रेप्सया धर्मविधिविधीयते तत्सूरयः पौंस्त्रवनं वदन्ति ॥ केचिच्च मासे किल पञ्चमेऽपि पूर्णोऽथ गर्भः कथमष्टमावधि । तथेति धर्माद्विविधा हि संपत्संपूर्णमायुर्न रुजा भवेयुः ॥' इत्युक्तं पौनवनादि कर्म महोत्सवेन सर्व समज़े महत्या क्रियया धर्मपरीक्षा शुद्धविधिः पुरोहितो व्यधत्त ॥ स्वप्नेन सोमं निशि वीक्ष्य बालमादाय सारोप्य किल स्वमङ्कम् ।। लब्धोऽतिसौम्यस्तनयः प्रजानां मयेति दिष्ट्याभ्यववर्धदालीः ॥ १० ॥ स्वप्नेनेति ॥ मया निशि स्वप्नेन बालं सोमं वीक्ष्य च आदाय किल अनायासेन स्व. मङ्कमारोप्य प्रजानामतिसौम्यस्तनयो लब्ध इति सा दिष्टया परमोत्सवेन आलीः सखीरंभ्यवर्धत् आनन्दयांचक्रे ॥ ग्रहेषु तेषूच्चगतेषु तस्मिन्नक्षत्रयोगे सुषुवे कुमारम् । अवग्रहो यैरभवन्न भूमेर्येनापि न क्षत्रमुदीर्णमन्यत् ॥ ११ ॥ ग्रहेष्विति ॥ यैर्घहैर्भूमेः अवग्रहः प्रतिबन्धो नाभवत् , येन नक्षत्रयोगेन अन्यत् क्षत्रं न उदीर्ण समुत्पन्नम्, तेषु प्रहेषूच्चगतेषु सत्सु तस्मिन्नक्षत्रयोगसमाहारे सति कुमारं सुषुवे ॥ समुच्चयः॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy