________________
२४
काव्यमाला।
तस्मिन्सुते तत्क्षणजातमात्रे रत्नप्रदीपाः प्रभया विमुक्ताः । नित्यं नरालम्बितभोगभागा नागा इवोच्चैः सविषादमस्थुः ॥ १२ ॥ तस्मिन्निति ॥ तस्मिन् सुते तत्समयजातमात्रे सति रत्नप्रदीपा प्रभया विमुक्ताः, नित्यं नरे आलम्बितो भोगभागो यैस्ते नागा इव, उच्चैः सविषादं यथा स्यात्तथा अस्थुः ॥ उत्प्रेक्षा ॥
नालं न्यधित्सद्भुवि यत्र नाभ्यं पदे पदे तत्र निधिं निचाय्य । रोमाञ्चितः कञ्चकमन्यदेकं स कञ्चुकी पर्यधितेव हृष्टः ॥ १३ ॥ नालमिति ॥ स कञ्चकी यत्र भुवि नाभिभवं नालं न्यधित्सत् तत्र पदे पदे निधि निचाय्य हृष्टः सन् रोमाञ्चितः सन्नन्यदेकं कञ्चकं पर्यधितेव ॥ उत्प्रेक्षा ॥ दिशः प्रसेदुर्विमलं नभोऽभूत्सौवं न्यपप्तत्कुसुमं नभस्तः । विरिद्धमिद्धं दिवि दुन्दुभीनां किं भागधेये सति दुर्लभं वा ॥ १४ ॥ दिश इति ॥ दिशः प्रसन्ना अभवन्, नभो निर्मलमभूत्, आकाशतो दिविजं कुसुमं नितरां पपात, दिवि दुन्दुभीनां विरिद्धं ध्वनितम् इद्धं तारमभूत्, अथवा भागधेये भाग्ये सति (प्राणिनाम्) किं दुर्लभं स्यात् ॥ अर्थान्तरन्यासः ॥ • आशीतिका वर्षवराः पुरंध्यः पञ्चाशदुत्तीर्णदशा निशान्ते ।
कुब्जाश्च पुत्रोत्सवमोहमन्त्रैरनर्तिषुः स्तोभमिवाभिनीताः ॥ १५ ॥
आशीतीति ॥ अशीति भूता आशीतिकाः । 'तमधीष्ठो भृतो भूतो-' इति ठक् ।। वरधिका अन्तःपुररक्षणनियुक्ता नपुंसकरूपा महत्तराः पञ्चाशद् वर्षाणि उत्तीर्णा दशा वयो यासां तादृशः पुरंध्यः कामिन्यः कुब्जाश्च अनुग्रपृष्ठवंशाः पुत्रोत्सवेनैव मोहमन्त्रैः स्तोभमावेशम् अभिनीताः प्रापिता इव नृत्यं चक्रुः ॥ उत्प्रेक्षा ॥
निवेदयन्यः सुतजन्म राजा स राज्यचिह्न सुतराज्यभास्वम् । हित्वैतदेकं धृतवान्न किंचिद्देयं हि तुष्टैरपि नान्यदीयम् ॥ १६ ॥ निवेदेति ॥ स राजा सुतजन्म निवेदयद्भयः एकं यौवराज्योपयोग्यं राज्यचिह्न हित्वा न किंचिद्धृतवान् । हि यतः तुष्टैरपि अन्यदीयं न देयम् ॥ अर्थान्तरन्यासः ॥
अन्तःपुरे राजनि राजधान्यां देशेऽप्यसंमाय दिशामधीशान् । व्याप्यासनक्षोभकृदुत्सवोऽयमद्यापि विश्राम्यति न प्रजासु ॥ १७ ॥
अन्तेति ॥ अयम् आसनस्योपवेशनस्य क्षोभं संचलनं करोति स उत्सवः दिशामधीशान्व्याप्य अवरोधे राजान राजधान्यां देशेऽप्यसंमाय अद्यापि प्रजासु न विश्राम्यति ॥ समुच्चयः ॥