SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] द्विसंधानम् । समं द्विषन्तः शुकसारिकाभिर्विपाशिता वल्गु शिशुं शशंसुः । निर्मोक्षमाणं सह धैनुकेन गृहे गृहे वात्सकमभ्यमुञ्चत् ॥ १८ ॥ सममिति ॥ शुकसारिकाभिः समं विपाशिता द्विषन्तो वल्गु यथा स्यास्तथा शिशु शशंसुः । निर्मोक्षमाणं आत्मानं मोक्तुमिच्छन्तं वत्ससमूहं धेनुसमूहेन सह गृहे गृहे अ. भ्यमुञ्चत् ॥ समुच्चयः ॥ पुरोहितावर्तितजातकर्मा नीरञ्जितं रत्नमिवाकरस्थम् । पुत्रः प्रकाशोऽयमभूत्क्रिया हि द्रव्यं निसृष्टद्युति संस्करोति ॥ १९॥ पुरोहीति ॥ पुरोहितेनावर्तितं जातकर्म यस्य स अयं पुत्रः, नीरञ्जितमाकरस्थं रत्नमिव, प्रकाशः तेजस्वी अभूत् । हि यतः क्रिया निसृष्टद्युति अविनष्टकान्ति द्रव्यं संस्करोति ॥ अर्थान्तरन्यासः ॥ पूर्व परं ज्योतिरुपार्च्य दैवं स्थेयान्प्रकृत्या विशदो गरीयान् । मनोभिरामोऽयमजातशत्रुरित्यर्थयुक्तं जुहुवे नृपेण ॥ २० ॥ पूर्वमिति ॥ नृपेण दशरथेन, परमुत्कृष्टम्, दैवं ज्योतिः पूर्वमुपाय॑ पूजयित्वा अयं प्र. कृत्या स्थेयान् स्थिरः, गरीयान् गरिष्ठः, अजाताः शत्रवः शातयितारो यस्य । अपराजितः ।यद्वा यमजातशत्रुः यमजं मरणमतन्ति शत्रवो यस्य, यमाय यावजीवव्रताय जाताः त्यक्तशस्त्राः शत्रवो यस्येति वा, मनोभिश्चित्तेन विशदः स्वच्छाशयः । 'लोपे' इति दीर्घस्तु संज्ञापूर्वकत्वान्न । तथा च भट्टिकाव्यस्थ ४ सर्गे 'जक्षिमोऽनपराधेऽपि नरान्नक्तंदिवं वयम् । कुतस्त्यं भीरु यत्तेभ्यो द्रुह्यद्भयोऽपि क्षमामहे ॥' इति ३९ पद्यव्याख्याने भीरु इत्यत्र 'संज्ञापूर्वकत्वात्संबुद्धिगुणो न' इति, 'क्रियाशब्दत्वादमुध्यत्वाच्च उडुत इत्यूङ्भावः' इत्यप्यत्रैव सर्गे २१ पद्यव्याख्याने जयमङ्गला । मनः अभि लक्षीकृत्य अभेः कर्मप्रवचनीयत्वेन मन इत्यत्र द्वितीया वा। रामः इति अर्थयुक्तं यथा स्यात्तथा जुहुवे आहूतः ॥ भारतीयपक्षे–मनोभिरामः कमनीयः, मनोभिः आमः सार्द्र इति वा, अजातशत्रुः युधिष्ठिरः ॥ श्लेषः ॥ दिनानि लब्ध्वा ववृधे शशीव कुब्जानवष्टभ्य विचक्रमे च । किंचिद्वभाषे सवयोभिरल्पं यात्रां जनस्योपदिशन्निवासीत् ॥ २१ ॥ दिनानीति ॥ [पुत्रः] जनस्य लोकस्य यात्रां स्थितिमुपदिशनिवासीत्, दिनानि प्राप्य शशीव ववृधे, कुब्जानामाश्रयेण विचचाल, मित्रैः सह किंचिदुक्तवांश्च ॥ समुच्चयः ॥ कपोलयोमूर्धनि पादयोस्तं निमीलिताक्षं नृपतिश्चचुम्ब । वस्य प्रियायाश्च सुतेऽवतीर्णमास्वादयन्स्नेहमिवैकरूपम् ॥ २२ ॥ कपोलेति ॥ स्वस्य प्रियायाश्च एकरूपं सुतेऽवतीर्ण स्नेहमास्वादयन्निव नृपतिः निमीलिताक्षं यथा स्यात्तथा तं कपोलादिस्थाने चुचम्ब ॥ उत्प्रेक्षा ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy