________________
काव्यमाला ।
स प्राज्ञमाहाकुलशूरसङ्गं चकार पोतुः प्रथमं नरेन्द्रः । पृक्तं नवं भाजनमत्र येन तद्गन्धरूपं हि भवत्यवश्यम् ॥ २३ ॥ स प्राज्ञेति ॥ स नरेन्द्रः पोतुः पुत्रस्य प्रथमं प्राज्ञैर्महाकुलसंभतैः शरैः सङ्ग चकार । हि यतो येन वस्तुना नवं भाजनं पृक्तं भवति तद्गन्धरूपमेवात्र लोकेऽवश्यं भवति ॥ उक्तं च-'नवान्यमत्राणि शुभोऽशुभो वा वासोऽपि लग्नोऽनयदात्मभावम् । यान्येव तानीतरथा विधातुं शक्नोति नूनं न चतुर्मुखोऽपि ॥' अर्थान्तरन्यासः ॥
लिपि स संख्यामपि वृत्तचौलः समाप्य वृत्तोपनयः क्रमेण । ब्रह्माचरन्षोडशवर्षबद्धमादत्त विद्याः कृतवृद्धसेवः ॥ २४ ॥ लिपि स इति ॥ समुच्चयः ॥
आन्वीक्षिकी शिष्टजनाद्यतिभ्यस्त्रयीं च वार्तामधिकारकृद्भयः। . वक्तुः प्रयोक्तुश्च स दण्डनीतिं विदां मतः साधु विदांचकार ॥ २५ ॥ .. आन्वीक्षिकीमिति ॥ शिष्टजनादान्वीक्षिकीम्, मुनिभ्यस्त्रयीम्, अधिकारनियुक्तेभ्यो वार्ताम्, वक्तुः प्रयोक्तुश्च दण्डनीतिम्, विदां मतः स साधु यथा स्यात्तथा विदांचकार ॥ समुच्चयः ॥
कृत्वा सपर्या कुलदेवताभ्यो विधाय गोदानविधिं सुतस्य । सवृत्तविद्याभिजनानुरूपं स दारकर्मावनिपश्चकार ॥ २६ ॥ कृस्वेति ॥ अवनिपः स कुलदेवताभ्यः सपर्या कृत्वा सुतस्य गोदानविधि विधाय समानेन वृत्तेनाचरणेन, विद्यया व्याकरणतर्कादिलक्षणया, अभिजनेन कुलेन अनुरूपं योग्यं दारकर्म विवाहं चकार ॥ समुच्चयः ॥
सजानकीनाशमतेरपेता नवा वधूः प्रेम निदर्य यूनः । विलासिका चित्तमसौ जहार किं कोऽपि तादृग्विषयेऽस्त्यसक्तः॥२७॥ सजेति ॥ नाशोऽदर्शनम् । वियोग इति यावत् । तस्य मतेरपेता। न वियोगविषयेत्यर्थः। नवा तरुणी विलासो नेत्रजो विकारोऽस्यास्ति सा विलासिका असौ जानकी वधूः सत्समीचीनम् 'यत्रावकाशलेशोऽस्ति नोपचारविचारयोः । तद्व्यानं प्रेम चाशेषदुःखभिद्योगिभोगिनोः ॥' इत्युक्तलक्षणं प्रेम निदर्य यूनस्तरुणस्य रामस्य चित्तं हृदयं जहार, किं कोऽपि तादृक् रामसदृशो विषये इष्टस्रग्वनिताचन्दनादावसक्तोऽस्ति ॥ भारतीयपक्षे-सजा प्रगुणा यद्वा सतः सत्पुरुषाजाता कुलीना कीनाशस्य यमस्य भतिरिव मतिः कीनाशमतिः क्रूरेत्यर्थः । यद्वा 'कीनाशः कृपणो लुब्धो दीनो गृध्रुश्च मर्दनः' इत्युक्तेः कीनाशा दीना मतिः कीनाशमतिस्तस्या अपेता विलासिका विलासिनी युनो युधिष्ठिरस्य चित्तं न जहारेति विशेषः । श्लेषार्थान्तरन्यासः ॥