SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] द्विसंधानम् । भीमः क्रमाद्धर्महरः किरीटी प्रांशुर्विशालः ककुदुन्नतांसः । अभूद्रुषस्कन्धधरो महेच्छः स वर्तितो वर्तिकयेव धात्रा ॥ २८ ॥ भीम इति ॥ भीमो भयानको भीमसेनश्च । किरीटी मुकुटवान् अर्जुनश्च । क्रमात् प. रिपाट्या आनन्तर्येण च । प्रांशुः उच्चस्तरः। विशालो विस्तीर्णः । ककुद् वृषस्कन्धोर्ध्वप्रन्थिरिवोन्नतावंसौ यस्य । वृषस्य वृषभस्य धर्मस्य वेव स्कन्धधरा ग्रीवा यस्य । महतीच्छा यस्य, यद्वा मह उत्सवे इच्छा यस्य, यद्वा महे अच्छोऽविकलहृदयः। वर्तिका चित्रलेखनी । वर्तितश्चित्रितः ॥ उत्प्रेक्षा ॥ ततः सुमित्रोदयहेतुभूतामद्रयुन्नति प्राप्तमसूत सूनुम् । योऽपप्रथत्सन्नकुलोदितारिः श्रीलक्ष्मणाख्यां सहदेवचर्यः ॥ २९ ॥ तत इति ॥ ततः रामोत्पत्त्यनन्तरम्, सुमित्रा राज्ञी उदयहेतुभूतां विभवकारणभूताम्, अद्युन्नतिम् अद्रेः पर्वतस्य संबन्धिनीम् उन्नतिम् पार्वतीमिवोन्नति वा प्राप्तं सूनुम् पुत्रम् असूत जनितवती । सन्ना हता कुले उदिता अरयो येन सः,सन्नकुलोदितारि: देवानामिव चर्यया गत्या सहवर्तमानः सहदेवचर्यः यः श्रीलक्ष्मणाख्यां लक्ष्मण' इति नाम अपप्रथत् प्रकटितवान् ॥ भारतीयपक्षे-ततः युधिष्ठिरभीमार्जुनोत्पत्त्यनन्तरम् । सुमित्रोदयहेतुभूता शोभनमित्राणामुदयहेतुभूता, माद्री राज्ञी उन्नति प्राप्तं सूनुमसूत । यः सहदेवेन चर्या गमनं यस्य स सहदेवचर्यः तादृशः सन् दितारिः दिताः खण्डिता अरयो येन तादृशः सन् श्रीलक्ष्मणा श्रिया लक्ष्म्या लक्ष्मभिलक्षणैश्च नकुल इत्याख्याम् अपप्रथत् ॥ श्लेषालंकारः॥ राज्ञस्तथा सुप्रजसः कुलस्य सर्वस्य सोऽतीव जनस्य जातः । शत्रुघ्ननामाभ्युदयैकहेतुः पुत्रं पुनातं(नं) हि कुलं निराहुः ॥ ३० ॥ राज्ञ इति ॥ यथा रामलक्ष्मणौ पुत्रौ जातो, तथा राज्ञो दशरथस्य सुप्रजसः कामिन्याः स शत्रुघ्ननामा पुत्रो जातः, यः सर्वस्य कुलस्य जनस्य अतीव अभ्युदयैकहेतुः । हि यतः कुलं पुनातं (नं) पुत्रं निराहुः ॥ उक्तं च-'पुष्णाति धर्म हि कुलक्रमेण समागतं यः कृपया प्रपूतम् । कुलं पुनातं(नं) जनकस्य कीर्त्यां पुत्रं पवित्रं प्रवदन्ति शिष्टाः ॥' भारतीयपक्षे-शत्रुघ्नं नाम यस्य स नकुलः सर्वस्यातीवाभ्युदयैकहेतुर्जात इत्यन्वयः ॥ अर्थान्तरन्यासः ॥ सर्वः कुमारः सुकुमारमूर्तिः सोष्णीषमूर्धोन्नतिरौर्णिकीभ्रूः । आलिङ्गितश्रीकरकंकणाङ्कमार्गादिवावर्तितकण्ठरेखः ॥ ३१ ॥ सर्व इति ॥ सुकुमारा मूर्तिर्यस्य स, उष्णीषेण ब्रह्मद्वारस्थोच्चप्रदेशप्रन्थिलक्षणविशेषेण सहिता मर्ध्न उन्नतिर्यस्य सः, उर्णायां भ्रुवोरन्तरावर्ते नियुक्ते भ्रुवौ यस्य । 'तत्र नि. युक्तः' इति ठकि 'वृद्धिनिमित्तस्य-' इति पुंवद्भावनिषेधः । आलिङ्गितायाः श्रिया लक्ष्म्याः शोभायाः करकंकणस्य चिह्नवतो मार्गादिव आवर्तिता कण्ठरेखा यस्य स सर्वः
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy