SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २८ काव्यमाला | कुमारः कथंचित् पितुगैौरवं ललडे इति तृतीयश्लोकस्थक्रियया संबन्धः ॥ उत्प्रेक्षा ॥ ऊर्जस्वल: पर्वतभित्तिवक्षा निगूढजानुद्वयलम्बबाहुः । गम्भीरनाभिः स बृहन्नितम्बः श्रीगोपुरस्तम्भनिभायतोरुः ॥ ३२ ॥ ऊर्जस्वल इति ॥ निगूढं जानुद्वयं यस्य तादृशः । लम्बौ बाहू यस्य । श्रीगोपुरस्तम्भेन निभे आयते ऊरू यस्य सः ॥ उपमा ॥ चतुर्दशद्वन्द्वसमान देहः सर्वेषु शास्त्रेषु कृतावतारः । गुणाधिकः प्रश्रयभङ्गभीरुः पितुः कथंचिद्गुरुतां लल ॥ ३३ ॥ चतुर्देति ॥ भ्रू लोचन - नासा- कपोल-कर्ण - ओष्ठ-स्कन्ध- बाहु-पाणि-स्तन- पार्श्व-उ जङ्घा - पादानां चतुर्दशानां द्वन्द्वेन समानो देहो यस्य ॥ अन्त्यदीपकम् ॥ -उरु तत्याज पुत्रो विनयं न कश्चिज्जहौ पिता नानुनयं कदाचित् । यतः पितापुत्रमनन्यदाशं कस्यापि नाभूदपरुद्धवृत्तम् ॥ ३४ ॥ तत्याजेति ॥ यतः पितापुत्रं ताततनयम् कस्यापि अन्योन्यम् न अन्यस्मिन्नाशा यस्य तादृशं सत् । ‘अषष्ठ्यतृतीयास्थस्य -' इति दुगागमः । अपरुद्धवृत्तं लौकिकव्यवहारनिन्द्याचरणं नाभूत् । तस्मात् कश्चित्पुत्रः स्वपितरि विनयं न तत्याज । तथा पिता स्वपुत्रेषु कदाचित् अनुनयं प्रसादं न जहौ । निश्चयालंकारः ॥ तं द्रोणसंशब्दनमादधानं गुरुं प्रणम्यादित चापविद्याम् । राजन्यकं तां विजौ विरुद्धां ग्राह्यं च हेयं च भवेद्गुरुभ्यः ॥ ३५ ॥ तमिति ॥ राजन्यानां समूहः द्रोणसंशब्दनं मेघध्वनिं द्रोणसंज्ञां चाददानं तं गुरुं पितरमाचार्य च प्रणम्य चापविद्यां धनुर्विद्यामादित, विरुद्धामसम्यग्विद्यां तां चापविद्यां विजहाँ, यतो गुरुभ्यस्तदुपदेशात्सम्यग्ग्राह्यम्, असम्यग्धेयं भवेदेव || श्लेषः ॥ पदप्रयोगे निपुणं विनामे संधौ विसर्गे च कृतावधानम् । सर्वेषु शास्त्रेषु जितश्रमं तच्चापेऽपि न व्याकरणं मुमोच ॥ ३६ ॥ पदेति ॥ पदानां सुप्तिङन्तानां वैशाखलीढप्रत्यालीढलक्षणोपलक्षितानां च प्रयोगे रचनायां विन्यासे च निपुणं दक्षम्, विनामे षत्वणत्वयोः शरनम्रीकरणे च, संधौ प्रसृतवर्णेकत्रीकरणे शरसंधाने च विसर्गे प्रकटीक्रियतेऽकार ( ? ) संश्लिष्टार्थो येन तत्र शरत्यागे च, कृतावधानं विहितोद्यमम्, सर्वेषु शास्त्रेषु कृत्तद्धितसमासैकशेषादिषु राजव्यधापत्रच्छेदादिचित्रेषु च जितश्रमं विहिताभ्यासम्, तद्वाजयन्कं चापेऽपि धनुर्विद्यायामपि व्याकरणं तत्साम्यं न मुमोच त्यक्तवान् ॥ श्लेषः ॥ उत्प्रेक्षणे लक्ष्यविधौ च दक्षं धर्मे नदीर्ण पटु शब्दभेदे । निष्णात मुच्चैरचनासु चैतच्चापेऽपि तत्याज न काव्यकर्म ॥ ३७ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy