________________
३ सर्गः ]
द्विसंधानम् ।
२९
उत्प्रेक्षेति ॥ उत्प्रेक्षणे उत्प्रेक्षालंकारे दृष्टमुष्टयोरवलोकने च, लक्ष्यविधौ अर्थनिरूपणायां वेधव्यधायां च दक्षम्, धर्मे अष्टादशस्थलव्यावर्णनलक्षणे धर्मार्थकामरूपे त्रिवर्गे वा धनुर्गुणे च, नदीर्ण प्रवीणम्, शब्दभेदे तत्तद्देशनियतप्रयोक्तव्यशब्दविभागे शब्दमेव लक्ष्यीकृत्य शरमोक्षणे च, पटु कुशलम्, उच्च रचनासु खङ्गचक्रलाङ्गलमुरजा दिबन्धरचनासु दण्डस्वस्तिकाहितुरगचक्रव्यूहादिषु च निष्णातं तीक्ष्णधिषणम्, एतद्राजन्यकं चापेsपि काव्यकर्म न तत्याज ॥ श्लेषः ॥
आमण्डलीभूतशरासनस्य ज्याघोषवित्रासितदिग्गजस्य ।
त्रैलोक्यमालीढपदस्य मध्यमापत्य लीनं तदमंस्त रुष्टम् || ३८ ॥
• आमण्डेति ॥ रुष्टं कुपितम्, तद्राजन्यकं कर्तृ त्रैलोक्यं भुवनत्रयम् आ समन्तान्मण्डलीभूतं कुण्डलीभूतं शरासनं यस्य तादृशस्य ज्याया घोषेण वित्रासिता दिग्गजा येन तादृशस्य आलीढस्थानविशेषस्य मध्यम् आपत्य आगत्य लीनं द्रवभावेन परिणतम् अमंस्त ॥ उत्प्रेक्षा ॥
,
एवं चूडाताडितपादं परभूपा भक्त्यैकैकेयेयमुपेयुः शरणं यम् । सोभीतोऽयं तत्र समन्ताद्भरतोऽभूत्पुत्रः सर्वोपायविधानैर्जितशत्रुः ॥ ३९ ॥ एवमिति । एवं रामलक्ष्मणशत्रुघ्नोत्पत्तिप्रकारेण सः, अयं प्रत्यक्षदृष्टः, अभीतो निंअयं शुभावहविधिम् अभि समन्तादितः प्राप्तः सर्वेषामुपायानां सामदानादीनां विधानैः समन्तात् जितशत्रुः भरतः तन्नामा पुत्रः तत्र दशरथे राजनि अभूदजनि, यं कैकेयेयं कैकेय्या अपत्यं चूडाताडितपादं मुकुटाग्रमणिचुम्बितचरणं यथा स्यात्तथा भक्त्यै सेवायै शरणं परभूपाः शत्रव उपेयुः ॥ भारतीयपक्षे – तत्र पाण्डुनृपे सर्वः पुत्रो भरतः तद्वंश्यः अपायविधानैः नीतिशास्त्रीयमार्गविपरीतक्रियाभिः समन्ताजितशत्रुरभूत्, यम् अयम् यातुमशक्यम् एकैके असहायाः सन्तः भक्त्या इति विशेषः श्लेषः ॥ मत्तमयूरं वृत्तम् ॥ श्रिया विलोलो भरतो न जातः सुतो विनीतः सकलो बभूव । भज्येत राज्यं ह्यविनीतपुत्रं घुणाहतं काष्ठमिव क्षणेन ॥ ४० ॥
श्रियेति ॥ भरतो नाम सुतः श्रिया लक्ष्म्या विलोलश्चञ्चलो न जातः किंतु विनीतो नम्रः सकलः कलाभिर्गणितपठितवेणुवीणादिभिः सहितश्च बभूव ॥ भारतीयपक्षेसकलः सुतः श्रिया लक्ष्म्या आविल: युक्तः सन् लोभरतो लुब्धो न जातः इति विशेषः ॥ श्लेषार्थान्तरन्यासः ॥
तस्मिन्काले लीलया धार्तराष्ट्रास्ते कौरव्याभासमानस्वरूपाः ।
आलोकान्तकान्तकीर्तिप्रतापा न्याय्यस्थित्यापारपारा इवास्थुः || १ ॥ तस्मिन्निति ॥ लीलया गतिविशेषेण धार्तराष्ट्रा हंसोपमा: यद्वा लीलया हेलामात्रे - णापि धृतं राष्ट्रं पशुधान्यहिरण्यादिसंपदा राजते तत् यैस्ते धृतराष्ट्राः ततः स्वार्थिको ऽण्,