________________
३०
काव्यमाला।
रव्याभासमामस्वरूपा रविरिवाभासमानं स्वरूपं येषां तादृशा आलोकान्तं क्रान्तौ कीर्तिप्रतापी येषां तादृशास्ते रामादयः कौ पृथिव्यां तस्मिन्काले न्याय्यस्थित्या अपारपाराः समुद्रा इव अस्थुः॥भारतीयपक्षे ते धार्तराष्ट्रा धृतराष्ट्रस्य पाण्डुज्येष्ठधातुरपत्यानि कौरव्या लीलया भासमानस्वरूपा दीप्यमानमूर्तय इति विशेषः ॥ श्लेषालंकारः॥ शालिनी वृत्तम् ॥ सर्वस्वादुर्योधनेनार्जयित्वा दत्त्वा पित्रे येन संपत्फलानाम् । पृक्तास्तेन ज्यायसा भ्रातरस्ते जग्मुर्लोकालम्बनस्तम्भमूर्तिम् ॥ ४२ ॥ सर्वेति ॥ येन योधनेन सर्वस्वादुः सर्वेषां स्वपरवंशोद्भवानां साधुवृत्तीनां स्वादुः । विश्वरसिकेत्यर्थः । फलानां संपद् अर्जयित्वा उपायं पित्रे दत्ता, तेन ज्यायसा ज्येष्ठेन रामेण पृक्ता युक्ता भ्रातरस्ते लक्ष्मणादयः लोकस्यालम्बनाय स्तम्भ इव मूर्ति जग्मुः ॥ भारतीयपक्षे-येन दुर्योधनेन सर्वस्वा सर्वेषां स्वा आत्मीया फलानां संपत् अर्जयित्वा पित्रे धृतराष्ट्राय दत्ता इति विशेषः ॥ श्लेषोत्प्रेक्षा ॥
इति विनमयन्नुच्चैस्तब्धान्नतानतिवर्धय
न्स परिणमयन्पृथ्वी पुत्रैर्वसून्युपहारयन् । सुखमगमयत्कालं हर्ये स्मरन्परमेष्ठिनं
नहि सुतवतां नामासाध्यं धनंजयमिच्छताम् ॥ ४३ ॥ इति श्रीधनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधाने काव्ये
राघवपाण्डवकौरवोत्पत्तिवर्णनस्तृतीयः सर्गः समाप्तः । इतीति ॥ स राजा दशरथः पाण्डुश्च, इति उक्तप्रकारेण पुत्रैः उच्चैस्तब्धानिरपून् वि नमयन् विशेषेण नम्रीकारयन् , नतान् अतिवर्धयन् , पृथ्वी परिणमयन् हस्तेकारयन् , वसूनि द्रव्याणि उपहारयन् पुष्टिं प्रापयन्, परमेष्ठिनं स्मरन् स्मरणविषयं नयन् , कालं समयं हर्ये सुखं यथा स्यात्तथा अगमयत् । हि यतः धनं जयं चेच्छतां सुतवताम् अ. साध्यं नाम नास्ति ॥ अर्थान्तरन्यासः । हरिणीवृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां
द्विसंधानकाव्यटीकायां पुत्रोत्पत्तिवर्णनो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः । अथ जातु न यौवनोदये सहवासाय ममायमस्मरत् ।
इति जातरुषेव भूपते रसागृह्यत केशवल्लरी ॥ १ ॥ अथेति ॥ अयं राजा युवावस्थायां सहवासाय कदापि मम माम् । 'अधीगर्थइति षष्ठी। नास्मरदिति जातरोषया इव जरया केशवल्लरी अगृह्यत ॥ उत्प्रेक्षा । सर्गेऽस्मिन्वैतालीयं वृत्तम् ॥