________________
द्विसंधानम् ।
प्रथमस्तनयोऽभिषिच्यतामिति सापत्न्यभयादिवाजपत् । पलितं तमुपेत्य कर्णयोनिजगुप्तिप्रशमो हि वर्धिमा ॥ २ ॥ प्रथमेति ॥ पलितम् तं राजानमुपेत्य कर्णयोः प्रथमस्तनयोऽभिषिच्यतामिति शत्रुत्वभयादिव अजपत् । हि यतः निजौ गुप्तिप्रशमौ यस्य तादृशो वर्धिमा वार्धक्यम् ॥ अर्थान्तरन्यासः ॥
विनिरूप्य स दर्पणे जरां निभृतं मौलिमुपोपवाजयन् ।
इति निर्विविदे विशांपतिर्विरतिं याति हि संसृतेर्बुधः ॥ ३ ॥ विनीति ॥ स विशांपतिर्निभृतं संकुचितं मौलिम् उपोपवाजयन् विधुन्वन् । 'वो - जुक्' इति णौ जुगागमः ॥ सन् दर्पणे आदर्श जराम् अवलोक्य निर्विविदे निर्विण्णो बभूव । हि यतः बुधः संसृतेर्विरतिं याति ॥ अर्थान्तरन्यासः ॥ किमभुक्तमनुष्ठितं जनैर्यदपूर्व प्रतिपालयन्त्यमी ।
ननु भुक्तसमैव वेदना सुखनामा विषयेषु भाविषु ॥ ४ ॥
४ सर्गः ]
३१
किमिति ॥ अमी जना यदपूर्वमदृष्टं प्रलयन्ति प्रतीक्षन्ते । तत् किं अभुक्तमननुभूतं जनैरनुष्ठितम् । अपि तु भुक्तमेव ॥ ननु भाविनं वैषयिकं भोगं प्रतीक्षन्ते इति चेत्, नैष दोषः । ननु च भाविषु विषयेषु, सुखमेव नाम यस्य तादृशी, वेदना विद्यते परिज्ञायते मनोव्यापारेणेन्द्रियव्यापारोद्भवं सुखमनया सा अनुभवनमित्यर्थः । भुक्तसमा भुक्तेन रमणीयेन स्रक्चन्दनादिविषयलक्षणेन समा अनुभवसमानकालिकैव ॥ शीतबहुले शिशिरे तृणाग्निसंयोगजसुखानुकारित्वाद्विषयाणामापद्रम्यत्वमवसानवैरस्यमिति भावः ॥ त्यजतो न जहाति योऽखिलान्विषयांस्तद्विषयैकमानसः ।
स जहातु दुरन्तभावनामजहद्वृत्तिमिमां कथं जनः ॥ ५ ॥ त्यजेति ॥ यस्त्यागं कुर्वतोऽप्यखिलान्विषयान् तेषु विषयेषु एकमसाधारणं मानसं यस्य तादृशः सन् न जहाति स जन इमां दुरन्तेषु रागादिषु भावनाम् अजहती वृत्तिवर्तनं यस्यास्तां कथं जहातु । अपि तु न ॥
क्षणभङ्गुरमङ्गमङ्गिनां न गता यौवनिका निवर्तते ।
विभवास्तृणवारिचञ्चला निचया मर्मरपत्रसंनिभाः ॥ ६ ॥
क्षणेति ॥ यौवनका तरुणं वयः । तृणवारिवच्चञ्चलाः । मर्मरपत्रं शुष्क पर्णम् । निचया माद्यन्मित्रकलत्रपुत्रादयः ॥ उपमा ॥
द्विषि मित्रमतिं हितप्रिये रिपुबुद्धिं जनयन्ति जन्तवः ।
विपरीततया तनूभृतामिह तत्रापि दवीयसी मतिः ॥ ७ ॥
द्विषीति ॥ जन्तवः द्विषि अनन्तसंसार भ्रमणहेतुत्वादेषणात्रयरूपे शत्रौ मित्रबुद्धिं सहाय