________________
३२
. काव्यमाला।
बुद्धिम्, हितप्रिये भवोद्भवानवरतानन्तदुःखपरम्पराविनाशहेतुत्वादनन्तसुखविधातृत्वादात्मकार्ये धर्मलक्षणे प्रतिकूलमतिं विपरीततया जनयन्ति । यतो देहभृताम् इह लोके परलोके च तत्र मित्रशत्रुज्ञाने दूरतमा मतिः ॥ अर्थान्तरन्यासः ॥
क्व नृपो भरतोऽमरार्चितो भुवनं येन बभूव भारतम् ।
क्षणिकाः सकलाः समागमाः कृतमेकं हि विवर्तते परम् ॥ ८ ॥ क्वेति ॥ हि निश्चयेन कृतं विहितं परं केवलम् एकं विवर्तते विपरिणमति ॥
हिममुष्णहतस्य यत्सुखं शिशिराभ्यर्दितचेतसोऽनलः ।
क्षणदुःखनिषेधकारणं न सुखं नित्यमुशन्ति योगिनः ॥ ९॥ हिममिति ॥ योगिनः क्षणदुःखनिषेधकारणं सुखं नित्यं न उशन्ति ॥
यदपायि पयः सुतेन यद्विसुताभिः ससृजेऽश्रु मातृभिः ।
मधुरं लवणं च किं द्वयं न पयःक्षारपयोधितोऽधिकम् ॥ १० ॥ यदेति ॥ यत् सुतेन पयः क्षीरम् अपायि, यद् वन्ध्याभिर्माभिरश्रु विसृष्टम् , तद् द्वयं मधुरं लवणं च किं क्षीरक्षारसमुद्राभ्यामधिकं न । अपि त्वधिकमेव । मोहमाहात्म्यम् ॥
विगणय्य तदेवमंहसो विरिरंसन्नभिषेक्तुमग्रिमम् ।
इति तं व्यनयत्सुतं सतामृणनिश्चित्ततया स्वनिर्वृतिः ॥ ११ ॥ विगणेति ॥ राजा एवमुक्तप्रकारेण तत्पूर्वोक्तं विगणय्य विचार्य अंहसः पापात् वि. रामं विधातुमिच्छन् ज्येष्ठं तं सुतम् अभिषेक्तुं राजपट्टे अभिषेकं कर्तुम् इति वक्ष्यमाणरीत्या व्यनयत् शिक्षितवान् । यतः सताम् क्रूणानिष्क्रान्तं चित्तं यस्य तादृक्तया स्वनिर्वृतिर्भवन्ति ॥ अर्थान्तरन्यासः ॥
युगबद्धमिमं भरं भुवस्त्वमिहैको नृपपुंगवः परम् ।
धवलो वहसे ततोऽधुना न ममाज्ञामवमन्तुमर्हसि ॥ १२ ॥ युगेति ॥ यस्मात्कारणात् इमं प्रत्यक्षभूतं मद्धृतं युगबद्धं भुवः भरं भारम् इह भूम., ण्डले त्वमेव परं केवलम् एकोऽसहायः नृपपुंगवः नरेन्द्राग्रणीः धवल: शुभ्रः निष्कलङ्कः सन् वहसे वक्ष्यसे ततः कारणाद् अधुना ममाज्ञाम् अवमन्तुं नार्हसि ।।
विजयाय जय स्वमादितो निजकर्मप्रकृति ततो रिपुम् ।
गमिनः परलोकसाधनं तव मेऽपि स्थितिरीदृशी मता ॥ १३ ॥ . विजयेति ॥ गमिनो गन्तुमिच्छतस्तव मम च ईदृशी स्थिति: परलोकसाधनं शत्रलोकसाधनं पारलौकिकसाधनं मता। कीदृशी । त्वम् आदितः प्रथमतः विजयाय जयनिमित्तं स्वमात्मानं जय प्रशमय । अहमपि जयामि । ततस्त्वं निजकर्म अहोरात्रवि