SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः ] द्विसंधानम् । ३३ भागक्रियाम् । ततः प्रकृतिम् अमात्यादिसप्तकम् । अहं तु निजकर्मप्रकृतिम् आत्मीयकस्वभावम् । ततो रिपुं कामादिषट्कं त्वम् । अहं तु मोहनीयकर्मापि । जय जयामीति क्रियाया यथायोग्यमन्वयः ॥ श्लेषः ॥ विहिताखिलसत्त्वरक्षणं घृतसत्यस्थिति वीतमत्सरम् । त्वमितोऽहमिवाभयैकवागसिधाराव्रतधर्ममाचर ॥ १४ ॥ विहति ॥ इतः अद्यप्रभृति, अभयैकवाग् अभयैकवचनः त्वम् असिधारैव व्रतं यत्र तादृशधर्मम् । अहं तु असिधारावत्कर्तु धर्ते चाशक्यं सर्वदर्शनसंमतब्रह्मचर्य रूपव्रतस्य जीवदयारूपधर्मस्य च समाहारम् । विहिताखिलसत्वरक्षणम् । त्वं कृतसकलप्राणिरक्षणम्, अहं तु विहितम् अखिलानाम् एकेन्द्रियादिपश्ञ्चेन्द्रियपर्यन्तजीवानां रक्षणं यस्मिन् तादृक् । धृतसत्यस्थिति । त्वं धृता सत्येन स्थितिर्यत्र, अहं तु धृता सत्येऽनलीकवचने स्थितिर्यत्र तादृक् च । वीतमत्सरम् । त्वं विशेषेण इतः प्राप्तो वीरव्रतनिष्पत्यै मत्सरोऽहंकारो यत्र तादृक्, अहं तु विशेषेण इतो गतः मत्सर आत्ममन्यता यत्र तादृक् च । यथा स्यात त्वम् आचर यथाहमाचरिष्यामि ॥ श्लेषोपमा ॥ विविधानि वसूनि वाहनं बहु देशो दिशतीति वर्णितः । स यथोक्तिमिमामुपप्लवैर्न विहास्यत्यभिरक्ष्यतां तथा ॥ १५ ॥ विवीति ॥ नानाप्रकाराणि द्रव्याणि वाहनं च मत्तमातङ्गतुरंगमादि बहु दिशति ददाति इति निरुक्त्या देशो वर्णितः । यथा येन प्रकारेण इमां निरुक्तिं स देश उपद्रवैर्न विहास्यति । तेन प्रकारेण त्वया अभिरक्ष्यताम् ॥ स्वरूपान्वाख्यानम् ॥ उपसान्त्वय कृत्यमात्मनस्तमकृत्यं नय वृद्धिमृद्धिभिः । उभयं परकीयमात्मसात्कुरु नीतेः प्रथमोऽयमुद्यमः ॥ १६ ॥ उपेति ॥ कृत्यं परैर्भेत्तुं शक्यम् । 'कृती छेदने' इत्यतः 'ऋदुपधात् -' इति क्यप् । आत्मीयं प्रशमय, अभेद्यम् ऋद्धिभिर्वृद्धिं नय, परकीयम् उभयं भेद्याभेद्यमात्मवशगं कुरु । अयं नीतेः प्रथम उद्यमः ॥ स्वभावाख्यानम् ॥ विधिना खलु दीयतेऽखिलं न नृपो दत्त इति स्म मा भवत् । विधिरेष सतां यमोऽसतामिति भूयाज्जनतासु ते कथा ॥ १७ ॥ विधिनेति ॥ अखिलं विधिना दीयते, नृपो न दत्ते इति ते कथा मास्म भवत् । एष राजा सतां विधिः असतां यम इति ते कथा जनसमूहे भूयात् ॥ स्वभावान्वाख्यानम् ॥ वसुनोपचितेन संभवेदिह धर्मेण परत्र तु त्रयम् । उभयत्र न तन्मनोभुवा भुवि येन त्रयमत्र तत्क्रियाः ॥ १८ ॥ वसुनेति ॥ इह लोके अर्थेन पुष्टिं नीतेन त्र्यं धर्मार्थकामाख्यं संभवेत्, परलोके तु ध ५
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy