SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। र्मेण पुष्टिगतेन धर्मार्थकामरूपं त्रयं संभवेत्, मनोभुवा कामेन तत् त्रयम् उभयत्र न । त. स्मादत्र एषु येन कृतेन भुवि त्रयं भवेत् तत् क्रियाः (त्वम्) ॥ स्वभावान्वाख्यानम् ॥ अभिवृद्धिमियति विप्रियैर्नय वैरं प्रशमं ततः प्रियैः । समुदेति हि शस्यमातपे न तरुच्छायहतं विवर्धते ॥ १९ ॥ अभीति ॥ यतः विप्रियैः दण्डादिभिः वैरम् अभिवृद्धिम् इयति याति ततः प्रियैः सामादिभिः वैरं प्रशमं नय । हि यत आतपे शस्यं समुदेति, तरूणां छायया हतम् । 'छा. याबाहुल्ये' इति क्लीबतां एकस्मिन्नपि निबिडछायासत्वे बहुत्वारोपः । शस्यं न विवर्धते॥ सामादयश्च 'साम प्रेमपरं वाक्यं दानं वित्तस्य चार्पणम् । भेदो रिपुजनाकृष्टिदण्डः श्री. प्राणसंहृतिः ॥' इत्युक्तलक्षणा ज्ञेयाः ॥ अर्थान्तरन्यासः ॥ न निजो न परोऽस्ति कस्यचिद्गुणतः स्वः परवांश्च जायते । तदिदं सकलं भुवस्तलं प्रणयेनात्मवशं त्वमानय ॥ २० ॥ न निज इति ॥ गुणतः संधिविग्रहयानासनद्वैधीभावसंश्रयात पाहुण्यात् आत्मीयः परकीयः, परकीय आत्मीयो जायते । तस्मात् इदं सकलं भुवस्तलं प्रणयेन प्रेम्णा आत्मवश्यं त्वम् आनय ॥ साममाहात्म्यं दर्शितम् ॥ स्वभावान्वाख्यानम् ॥ इदमित्यनुशिष्य मेदिनीमुपलभ्यां प्रथमेन सूनुना । विदधे विरिरंसुरेनसो गृहमेधी हि सुतावधिर्मतः ॥ २१ ॥ इदेति ॥ एनसः पापात् विरिरंसुः विराममिच्छू राजा इदं पूर्वोक्तम् इत्यमुना प्रकारेण (सुतं) शिक्षयित्वा, मेदिनी क्षितिं प्रथमेन सूनुना उपलभ्यां प्राप्याम् विदधे चक्रे । हि यतः गृहमेधा अस्यास्तीति गृहमेधी गृहस्थः सुतावधिः समर्थसुतोऽवधिर्यस्य तादृग् एव मतः ।। अर्थान्तरन्यासः ॥ पणवाः प्रणिनेदुराहता ननृतुर्वारविलासिनीजनाः । नटगाथकसूतसूनवः पटवः पेठुरुपेत्य मङ्गलम् ॥ २२ ॥ पणवा इति ॥ पटहा आहताः सन्तो नेदुः, वेश्याजना उपेत्य ननृतुः, पटवः नटा नर्तनाचार्या गाथका गायनाचार्याः सूतानां भट्टाचार्याणां सूनव उपेत्य मङ्गलं पेटुः ॥ समुच्चयः ॥ सपताकमुदात्तनायकं कृतनानारसभावविभ्रमम् । प्रतिरङ्गनिविष्टपात्रकं नगरं नाट्यमिवायुतत्तराम् ॥ २३ ॥ सपतेति ॥ नगरं पत्तनम्, सपताकं सध्वजम्, उदात्तनायकं महेच्छाधिपम्, कृतनानारसभावविभ्रमकृतो गन्धरसानां भावो यत्र तादृशा विभ्रमा मार्गा यत्र तादृशम्, प्रतिरङ्गनिविष्टपात्रकं प्रतिप्राङ्गणस्थापितमङ्गलसद्रव्यपरिपूर्णस्थालकं च सत् । सपताकं
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy