SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः] द्विसंधानम् । सहोत्क्षिप्ताङ्गुलिविन्यासेन वर्तमानहस्तम्, उदात्तनायकं सत्यगानवनायकम्, कृतनानारसभावविभ्रमं कृता नाना रसाः शृङ्गारादयः भावाश्चैतोविकाराः विभ्रमाः कुटिलभ्रूभङ्गतयार्धावलोकनानि यत्र तादृक्, प्रतिरङ्गनिविष्टपात्रकं प्रतित्यस्थानप्रविष्टनर्तक्यादि नाट्यमिव । अद्युतत्तराम् ॥ श्लेषोपमा ॥ श्रवणेषु मृदङ्गनिखनाजनतोवाच परस्परं वचः । ललनाश्च कपोलघट्टनान्निरविक्षन्विनिमीलितेक्षणम् ॥ २४ ॥ श्रवेति ॥ जनता मृदङ्गनिस्वनात्परस्परं कर्णयोर्वच उवाच ललनाः कपोलघटनाद्विनिमीलितेक्षणं यथा स्यात्तथा निरविक्षन् प्राविक्षंश्च ॥ समुच्चयः ॥ भुवि पुष्पमपूरि गुल्फकं पटवासोऽपि वितस्तरे दिशः।। वियतोऽपि तलं वितेनिरे पुरि कालागुरुधूमयष्टयः ॥ २५ ॥ भुवीति ॥ पुरि भुवि पृथिव्यां पुष्पं गुल्फकम् अपूरि, पटवासो दिशो वितस्तरे, कालागुरुधूमयष्टयः वियतस्तलं वितेनिरे ॥ समुच्चयः ॥ अधिरुह्य जनेन पश्यता गृहचैत्यगुमशालगोपुरम् । परितोऽनवकाशकारणान्नगरीवोपरि तस्थुषी पुरः॥ २६ ॥ अधीति ॥ अनवकाशकारणात् परितः गृहचैत्यद्रुमशालगोपुरम् मन्दिरदैवकुलवृक्षप्राकारतोरणद्वारम् अधिरुह्य पश्यता जनेन पुर उपरि नगरी स्थितवतीव । बभूव इति शेषः ॥ उत्प्रेक्षा ॥ अभिषेकजलप्लवेन सा वसुधा दीर्घमुदश्वसीत्तदा । नवसंगमधर्मवारिणा स्त्रपिताङ्गाभिनवा वधूरिव ॥ २७ ॥ अभीति ॥ तदा सा वसुधा अभिषेकजलप्लवेन राज्याभिषेकवारिणा नवसंगमधर्मवारिणा नूतनसंयोगस्वेदजलेन स्नपिताङ्गा अभिषिक्तशरीरा अभिनवा संभवद्यौवनभरा वधूरिव दीर्घ यथा स्यात्तथा उदश्वसीत् ॥ उपमा ॥ कमला च दलान्तरस्रवज्जलबिन्दूज्वललम्बमौक्तिकम् । कमलातपवारणं तदा शशिशुभ्रं बिभरांबभूव तत् ॥ २८ ॥ कमलेति ॥ तदा कमला लक्ष्मीः दलान्तरस्रवजलबिन्दुज्ज्वललम्बमौक्तिकं पत्राणामन्तरालतः सवन्तो जलबिन्दव इवोज्ज्वलानि लम्बानि मौक्तिकानि यस्य तादृशम्, शशिशुभ्रम् इन्दुधवलं तत् कमलातपवारणं बिभरांबभूव ॥ स्वभावान्वाख्यानम् ॥ हरिविष्टरमध्यमास्थितः प्रचलच्चामरचारुसंहतिः। स जिगाय समुद्रवीचिभिः खलु वेलाचलमाहतं युवा ।। २९ ॥ ...
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy