________________
३६
काव्यमाला ।
हरीति ॥ हरिविष्टरमध्यं सिंहासनमध्यम् आस्थितः, प्रचलच्चामरचारुसंहतिः प्रचलन्ती चामराणां चार्वी मनोज्ञा संहतिः श्रेणिर्यस्य स युवा समुद्रवीचिभिः जलधिकल्लोलैः आहतं ताडितं वेलाचलं खलु निश्चयेन जिगाय जितवान् ॥
उपकर्ण्य तथा नरेश्वरं पितरि प्रागपि कोपधूमिते
हृदयेद्विषतां समुत्थितः प्रलयज्वाल इवानलोऽधिकः ॥ ३० ॥
उपेति । पितरि सति प्राकू कोपधूमिते द्विषतां हृदये तथा अभिषिक्तं नूनं नरेश्वरं श्रुत्वा । प्रलये ज्वाला यस्य स इव । अधिक: प्रचुरः अनलः अग्निः समुत्थितः उत्पन्नः ॥
उपमा ॥
स नवाजिषु लब्धविक्रमः कृतरूढिर्नगजेषु दन्तिषु |
निजघान तथापि विद्विषं सहसापत्तिचयेन वर्जितः ॥ ३१ ॥
नवेति ॥ नवाजिषु बसङ्ग्रामेषु लब्धपराक्रमः, नगजेषु गिरिसमुद्भूतेषु कृतरूढिः कृतारोहणः आपत्तिचयेन आपत्समूहेन वर्जितः स सहसा हठादेव विद्विषं निजघान । तथापि पदेन विरोधः सूच्यते । स च वाजिषु अश्वेषु न लब्धविक्रमः दन्तिषु गजेषु न कृतरूढिः दन्तिपदेन मरवद्वीपोद्भवानां दन्तरहितानां ग्रहणव्युदासः, पत्तिचयेन पदातिसमूहेन वर्जितः तथापि शत्रुं निजघानेति व्याख्यया । परिहारस्तूक्तः । यद्वा एतेन पराक्रमातिशयोक्तिः खरदूषणादिवधस्यासहायेनैव कृतत्वात् ॥ श्लेषविरोधौ ॥
अजरोऽवनिवृत्तचेष्टितस्ततपङ्कोद्भवविष्टरागतः ।
सपितामहतां च सङ्गतो विधिरप्येकमुखत्वमागमत् ॥ ३२ ॥
अजेति ॥ अजरः न जरा यस्य सोऽजरस्तरुणः कुमारः, अवनिवृत्तचेष्टितः अवनौ क्षितौ वृत्तं प्रवृत्तं चेष्टितमाज्ञा यस्य तादृशः, ततपङ्कोद्भवविष्टरागतः तते विस्तीर्णे पोद्भवे दुर्य शसि विष्टानां प्रविष्टानां रागं प्रीतिं तस्यति क्षयं नयतीति । किप् । धातुत्वान्न दीर्घः । विस्तीर्णदुर्यशः प्रविष्टरागविनाशकः, स पितामहतां ब्रह्मतां संगत इति विधिरपि ब्रह्मापि एकमुखत्वमागमत् । इति च विरोधः तस्य वृद्धत्वाच्चतुर्मुखत्वाच्च । ब्रह्मा तु अजर: नित्यत्वाज्जगज्येष्ठत्वात्तपोतिशयप्राप्तत्वाद्वा न जीर्यतीत्यजरः, विस्तीर्णपङ्कजविष्टरप्राप्तः, महतां पिता । परिहारे तु स पिता पालकः, विधिर्जगन्मर्यादाव्यवस्थापकत्वात्, महतां सतां सङ्गतः संसर्गात् एकमुखत्वं सत्यवक्तृत्वाद्यागमत् ॥ विरोधः ॥
तमुदीक्ष्य नवोदयस्थितं परितापोऽर्कमिवाभवत्तदा । बहुलोभरतस्य भूभुजो निजमातुर्धृतराष्ट्रजन्मनः ॥ ३३ ॥
तमिति ॥ तदा नवोदय स्थितमर्कमिव तं राममुदीक्ष्य भरतस्य तत्संबन्धिनः धृतस्य राष्ट्रस्य हिरण्यादिविभूतेर्जन्मोद्दिश्य निजमातुः कैकेय्या भूभुजो दशरथनृपमुद्दिश्य बहुल: परितापोऽभवत् ॥ भारतीयपक्षे - बहुलोभरतस्य अत्यन्तलुब्धकस्य धृतराष्ट्रजन्मनो दुर्यो -