SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः ] द्विसंधानम् । ३७ धनस्य निजमातुः निजस्य आत्मन आत्मीयस्य वा मातुर्निश्चायकस्येति विशेषः ॥ श्लेषः ॥ न विषादितया यदागमत्फलसिद्धिं सुलभामसौ तदा । प्रतिपद्य भुवःपति वरं कृतकाक्षं रमणं त्वयाचत ॥ ३४ ॥ नवीति ॥ यदा असौ कैकेयी विषादितया विवादेन सुलभां फलसिद्धिं न अगमत्, तदा कृतकाक्षं कृतं प्राप्तं कं जलं ययोस्ते अक्षिणी यस्य साश्रुपातं तादृशं रमणं वल्लभं भुवः पतिं भूपतिं फलसिद्धिं प्रतिपद्य वरम् अयाचत । भारतीयपक्षे - असौ दुर्योधनः कृतकाक्षं कृतकाः कृत्रिमा अक्षाः पाशका यत्र तादृशं रमणं सारिद्यूतविषयकं वरं वरप्रदानमयाचतेति विशेषः ॥ सकलत्रमपेक्ष्य सत्कुलं किल कैकेयमकार्यकारिका । ननुवेत्यनिरूप्य कैतवं मतिमक्षैकजयेऽकरोत्प्रभुः ॥ ३५ ॥ सकलेति ॥ स प्रभुर्दशरथः सत्कुलं निर्लाञ्छनान्वयम्, कलत्रं कैकेयीम्, कैकेयं भरतं च किल परमार्थतः, अपेक्ष्य अवधार्य, अकार्यकारिका अकार्यकारणा इति कैतवं कुटिलस्वभावं वा अनिरूप्य अविचार्य, ननु अहो, अक्षैकजये इन्द्रियैकपराभवे मतिं बुद्धिम अकरोत् ॥ रामं संबोध्य कैकेयीवचनात्स्वप्रतिज्ञाभङ्गभयात् भरताय राज्यं दत्त्वा संसारसागरोत्तरणैकतरीं दक्षिां चकारेति तात्पर्यम् ॥ भारतीये – प्रभुर्युधिष्ठिरः ननु अहो का इयमेकासाधारणा अकार्यकारिका अकार्यजनिका इति कैतवं द्यूतव्यवहारम्, अनिरूप्य अपरिज्ञाय सकलत्रं स्वपरवर्गीयपालकम्, सच्छ्रेष्ठम् कुलम् अपेक्ष्य, अक्षैकजये पाशकैकजये मतिं बुद्धिम् अकरोत् ॥ स परेण तदाजितां महीं लघु मुक्त्वा सहसादरोदरैः । स्वगुरुस्थितिभङ्गभीरुकः प्रययौ भ्रातृबलेन काननम् ॥ , ३६ ॥ स इति ॥ तदा स्वगुरुस्थितिभङ्गभीरुकः आत्मीयजनक प्रतिज्ञाभङ्गभीरुः, सादरः सोद्यमः, स रामः परेण शत्रुणा अजितां महीम्, अदरैर्निर्भयैर्भटैः सह लघु शीघ्रं मुक्का परित्यज्य भ्रातृबलेन लक्ष्मणैकसहायेन काननं वनं प्रययौ गन्तुमारब्धवान् ॥ भारतीये - स्वगुरुस्थितिभङ्गभीरुकः आत्मीयमहाप्रतिज्ञाभङ्गभीरुः । परेण दुर्योधनेन दरोदरैः पाशकैः सहसा शीघ्रं जितां महीं लघु मुक्त्वा भ्रातृबलेन भीमार्जुननकुल सहदेवसहायेन ॥ सनिवर्त्य समन्वितान्नृपांस्तलवर्गोन्सचिवान्पुरोधसः । स्थितवान्पथि सीतयाच्युतो गहनेद्रौपदिकानुजान्वितः ॥ ३७ ॥ सनिवेति ॥ स रामः समन्वितान् अनुगन्तुमागतान् नृपान् राज्ञः, तलवर्गान् तलवरनियोगितुरगसाधनिकादीन्, सचिवानमात्यान् पुरोधसः पुरोहितान् पथि मार्गे निवर्त्य पश्चात्प्रस्थाप्य पदिकानुजान्वितः पद्भ्यामेव चरता अनुजेन अन्वितः सन् सीतया जान
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy