________________
३८
काव्यमाला |
क्या अच्युतोऽपरित्यक्तः सन् गहने अद्रौ स्थितवान् ॥ भारतीये - स युधिष्ठिरः सीतया क्षित्या च्युतः परित्यक्तः, द्रौपदिकानुजान्वितः द्रौपदिकया अनुजैश्चान्वितः गहने कान्तारे ॥
अपि यस्य जगाम मुद्रया सकलो वारिनिधिः समुद्रताम् ।
हृदि पश्यत संसृतेः स्थितिं स नरेन्द्रोऽपि पदातितां गतः ||३८|| अपीति ॥ मुद्रया साहित्यं सरित्पतित्वं च समुद्रता ॥ श्लेषः ॥ अपि चीरिकया द्विषोऽभवन्ननु चामीकरदायुतैौजसः ।
कुसुमैरपि यस्य पीडना शयने शार्करमध्यशेत सः ॥ ३९ ॥
अपिचीति ॥ ननु अहो यस्य चीरिकया लेखनेन अपि द्विषच्युतौजसः नष्टबला भूला चामीकरदा स्वर्णा अभवन् । तथा यस्य शयने शय्यायां कुसुमैः पुष्पैरपि पीडना पीड अभवत् । स शार्करं शर्करावन्तं देशम् अध्यशेत ॥
घनसारसुगन्ध्ययाचितं हृदयज्ञेश्चषकेऽम्बु पायितः ।
स विमृग्य वयेष्वनापिवानटनीखातसमुच्छ्रितं पपौ ॥ ४० ॥
घनसारेति ॥ हृदयज्ञैर्भृत्यैः चषके पानपात्रे घनसारसुगन्धि कर्पूरवासितम् अयाचितम् अप्रार्थितम् अम्बु जलं यः पायितः स वनेषु विमृग्य अन्विष्य अनापिवानलब्धवान् सन् अटनीखातसमुच्छ्रितं धनुरग्रप्रदेशोल्लिखितनिर्गतं जलं पपौ ॥
कुलजं शमिनं बहुश्रुतं स्थिरसत्वं ध्रुवयुद्धमूर्जितम् ।
यदि तादृशमप्यपैति तन्न खलु श्रीः श्रिय एव तादृशी ॥ ४१ ॥ कुलजमिति ॥ यदि तादृशं पूर्वार्धोक्तविशेषणयुक्तमपि खलु निश्चयेन श्रीरपैति परित्यजति तत् तर्हि श्रियो लक्ष्म्या एव तादृशी गुणवन्तं श्रयतीति श्रीरिति निरुक्तिदर्शिता श्रीः शोभा न ॥
क्रमशोऽतिजगाम नर्मदां स दुरन्तां जलधीरितोद्यमाम् ।
अवधीरणयातिलङ्घिनीं स्खलितप्रायगतिं प्रियामिव ॥ ४२ ॥
क्रमश इति ॥ स रामो युधिष्ठिरश्च । नर्मदां तन्नामक नदीम् । 'उपचारः स्त्रीपुंसयोर्मनोजन्मनिबन्धनः । स एवात्र परिज्ञेयो नर्मसंज्ञः प्रयोक्तृभिः ॥ इत्युक्तलक्षणं नर्म ददाति तादृशं च, दुरत्ताम् अलभ्यमध्यां, दुर्लक्ष्याशयां च, जलधीरितोद्यमां जलधये समुद्रगमनाय ईरित उद्यम यया समुद्रगां जडधिया ईरित उद्यमो यया स्त्रियो हि जडधियः । जडेन धिया ईरित उद्यमो यस्याम् । सुधियस्तु मातृवत्परदारेषु वर्तन्ते । अवधीरणया हेलया अवज्ञया च अतिलङ्घिनीं अतिलङ्घनषोग्याम् । 'कृत्यल्युट :' इत्यत्र 'कृहयुट:' इत्युपन्यासात् । अतिदूरगमनशीलाम्, स्खलितप्रायगतिं स्खलितप्राया पतनप्राया गतिर्य. स्यास्तां मन्दमन्दगमनां च, प्रियां प्रीतिविषयां भार्या च ॥ क्षेषोपमा ॥