________________
द्विसंधानम्
अनुकूलफलासु भूभुजा पथि शोकापनुदासु विश्रमम् । व्यपदिश्य दरीष्ववस्थितं तनयानां वसतिष्विव क्षणम् ॥ ४३ ॥
४ सर्गः ]
३९
अनुकूलेति ॥ भूभुजा पथि, अनुकूलफलासु प्रतिताम्रादिफलासु अनायासलभ्यफलासु च, चेतोग्लानिच्छित्सु, दरीषु, तनयानां पुत्राणां पुत्रीणां वा वासमन्दिरेष्विव विश्रममुद्दिश्यावस्थितम् ॥ उत्प्रेक्षा ॥
नृपतिं तमवेक्ष्य तापसाः कृपयार्द्रे हृदयेऽश्रु तत्यजुः । भुवि कः किल कर्कशाशयो महतामुत्सहते विपत्तिषु ॥ ४४ ॥ नृपतिमिति ॥ कर्कशाशयो - निष्ठुरचेताः, महतां विपत्तिषूत्सहते || अर्थान्तरन्यासः ॥ सरितः सरितो नगान्नगानवतीर्णः स बहूपकारकः । विषयान्विषयानुपेक्षितां वशवर्तीव गतो न्यशामयत् ॥
४९ ॥
सरित इति ॥ वशवर्ती योगी इव विषयान्त्रग्वनिताचन्दनादीनुपेक्षते इत्येवं शीलतां गतः प्राप्तः सन् बहूनामुपकारकोऽपि स तास्तास्तांस्तानवतीर्णः सन् न्यशामयत् । ददर्श ॥ उपमा ॥
निगमान्निनदैः शिखण्डिनां सुभगान्धैनुकहुंकृतैरपि ।
स ददर्श वनस्य गोचरान्कृकवाकूत्पतनक्षमान्नृपः ॥ ४६ ॥ निगमानिति ॥ स नृपः मयूराणां निनदैः शब्दैः तथा धेनुसमूहहुंकृतैश्च सुभगान्मनोहरान् निगमान् भक्तप्रामान् तथा कृकवाकूनां कुक्कुटानामुत्पतनक्षमान् वनविषयान् ददर्श ॥ समुच्चयः ॥
स विषाणविधूतरोधसं सहसापस्किरमाणमैक्षत ।
शिरसि स्थितपङ्कमिच्छया प्रधनस्येव भटं गवां पतिम् ॥ ४७ ॥ वीति ॥ स रामो युधिष्ठिरश्च विषाणविधूतरोधसं शृङ्गोत्क्षिप्ततटम् । शिरसि स्थितपङ्कं वर्तमानकर्दमम्, सहसा शीघ्रं प्रधनस्य योधनस्येच्छया अपस्किरमाणं अग्रचरणखुराभ्यां भूमिमुल्लिखन्तम्, गवां पतिं वृषम् । हस्तिदन्तप्रहारपलायितावरकम्, स्थितानेकमारणजन्यम्, योधनस्येच्छया हठात् 'यत्र यंत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते ॥' इत्युक्तेर्हर्षेण जीविकार्थ वा शत्रूरो विलिखन्तम् । भटपक्षे चतुष्पाच्छकुनित्वाभावात्सुडागमश्चिन्त्यः । भटं शूरमिव ऐक्षत ॥ षोपमा ॥
तृणकौतुक कंकणोचितां विलुलोके स विवृत्य गोपिकाम् । स्तनभारनतां प्रजापतेः श्रममस्थानगतं विचिन्तयन् ॥ ४८ ॥