________________
काव्यमाला |
तृणेति ॥ स तृणकौतुकंकणोचितां कुचभारनतां गोपिकां विवृत्य प्रजापतेः अ. स्थानगतं अयोग्यपदवीमायातं श्रमं विचिन्तयन् विलुलोके ॥
अमुनाभिशपन्धनं रुदन्नभिधावन्पृथुकोऽभिसादयन् । बुबुधे पथि शस्यमापतन्नववर्णीव दुरीहितं तपः ॥ ४९ ॥
अमुनेति ॥ धनम् अभिशपन् आक्रोशयन्, रुदन्, अभिधावन् इतस्ततः प्रपलायमानः, अभिसादयन् अभ्याशयन् शस्यं धान्यम्, आपतन्नागच्छन्, पृथुको बालकः । दुरीहितं दुश्चेष्टितं तप आपतन्नागच्छन् ( उक्तविशेषणविशिष्टोऽपि ) नववर्णी नूतनमुनिरिव । अमुना बुबुधे ज्ञातः ॥ उत्प्रेक्षा ॥
इदमेवमनादिगोचरं चिरमुच्चैरितरेतराश्रयम् ।
४०
विषयं वनमप्यनेकशः स सुखं दुःखमिवात्यगान्नृपः ॥ ५० ॥
इति ॥ स नृपो रामो युधिष्ठिरो वा अनादिगोचरं न आदेर्गोचरो विषयो यस्य तत् इदम् । 'नपुंसकमनपुंसकेन' इत्येकशेषः । उच्चैरतिशयेन, इतरेतराश्रयम् इतरेतर यस्मिन् यथा स्यात्तथा, अनेकशो बहून् वारान् विषयं देशम्, वनमरण्यम् । सुखं दुःखम् इव । चिरं बहुतरकालम् अत्यगात् । वनानन्तरं विषयम्, विषयानन्तरं वनम् एवमतिक्रामति स्म ॥ उपमा ॥
पथि सोऽवरजोऽग्रजं वचः स्फुटमित्यादित वीक्ष्य तादृशम् ।
विदिशं विशता विशां दिशं त्यजता सत्यमलंकृतं त्वया ॥ ५१ ॥
पीति ॥ सोऽवरजो लक्ष्मणः, भीमादिश्च । तादृशं देशवनाद्युल्लङ्घयन्तम्, अग्रजं रामं युधिष्ठिरं च । वीक्ष्य, पथि मार्गे, त्वया विशां देशानां संबन्धिनीं विदिशं दिशं विशता प्रविशता ( राज्यम्) त्यजता सता सत्यम् अलंकृतम् इति वचो वाक्यं स्फुटम् आदित उक्तवान् गृहीतवान् वा ॥
स्वकुलं समलंकृतं गुणैरुपनीताश्च महापदं जनाः ।
अनुजा विनयेन भूषिता न पराभूतिरितोऽस्ति काचन ॥ ५२ ॥ स्वकुलमिति ॥ (त्वया) गुणैरौदार्यादिभिः स्वकुलं समलंकृतं विभूषितम्, जनाश्च पित्रादयः (प्रतिज्ञापूरणात् ) महापदं महापदवीम् उपनीताः प्रापिताः । अनुजा भ्रातरः पश्चाद्भाविनश्च विनयेन भूषिता: (पश्चाद्भाविनोऽपि पित्रादिप्रतिज्ञामेवमेव विनयेन करिष्यन्तीति) शोभां प्रापिताः । इत एभ्यः परा व्यतिरिक्ता काचन भूतिर्विभूतिर्न अस्ति ॥ भारतीये – गुणैः सत्यसंधत्वादिभिः स्वकुलं समलं सलाञ्छनं कृतम् । जनाश्च महापदं महाविपत्तिम्, उपनीताः । विनयेन दुर्नयेन अनुजा भूषिता भुव्युषिताः । इतः पाया) काचन पराभूतिरभिभवः न अस्ति || श्लेषः ॥
-
,