________________
२ सर्गः]
द्विसंधानम् । असत्येति ॥ यस्यां पुरि पण्यदारतो वेश्याजनतः परे अन्ये अनृतप्रतिज्ञाः, अन्य. जनप्रतारका; कृतकेन कर्मणा विहितोपचर्याः, क्षणानुरागिणः, चञ्चलाः, प्रचुरच्छमानो न । परिसंख्या ॥
गतारिपुत्रासगुणायशोधिकासमानवापीवरनिम्ननाभिका। कथं कुलस्त्रीव सती सदानवा पुरी किल स्यादिति यत्र विस्मयः॥५१॥ गतेति ॥ यत्र इति विस्मयो वर्तते । किम् । गता नष्टापलापिता आ समन्ताद्रिपवस्त्रासगुणेन यस्याः सा, यशोधिका, समानासु चतुरस्रासु वापीषु वरं निर्मलं निम्नं गभीरं नाभिभूतं मध्यभूतं कं जलं यत्र, सती समीचीना सदा सर्वदा नवा नूतना । दानवैर्दै त्यैः सहितापि समीचीनेतिविरोधः। परिहारस्तूक्तः । पुरी 'गता नष्टा कुलस्त्रीव' कथं स्यात् । यतो नष्टकुलस्त्री, अरिपूणां बन्धूनां त्रासो भयमेव गुणो यस्याः सकाशात्, अयशोधिका निन्दाबहुला, असमानवा न समानो जातिकुलाभ्यां वो वल्लभो यस्याः, पीवरा घना निम्ना गम्भीरा नाभिस्तुन्दीर्यस्याः, सर्वदा नवा प्राप्तयौवनभरा भवति ।। अथवा इयं पुरी कुलस्त्रीव कथं न, अपि तु भवत्येव । यतः कुलस्त्री, गतारिपुत्रा गता विनष्ट अरिभूतपुत्रा यस्याः, पुत्रा वैरिणो नेति भावः । सगुणा गुणैरौदार्यादिभिः सहिता, यशोधिका यशःप्र. चुरा, समा पितामातृकुलेन तुल्या मया लक्ष्म्या सहिता वा, समानवल्लभा वा, अनवा । परसंनिधौ वृद्धव, अपि समन्ताद् या लक्ष्म्या शोभया वरा मनोज्ञा निम्ना नाभिर्यस्याः, सती पतिव्रता भवति । श्लेषोपमाविरोधाः ॥ को वा कविः पुरमिमां परमार्थवृत्त्या शक्नोति वर्णयितुमत्र विनिर्णयेन । नित्यं विधिः सततसंनिहितो विभूतिमन्यादृशं सृजति यत्र धनंजयाय॥५२॥ इति श्रीधनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये
अयोध्याहास्तिनापुरव्यावर्णनो नाम प्रथमः सर्गः।। को वेति ॥ यत्र अनवरतनिकटवर्ती विधिश्चतुर्मुखो विभूतिं संपदं अन्यादृशमपूर्व धनं जयाय रामाय सृजति, तामिमां पुरं विनिर्णयेन परमार्थवृत्त्या वर्णयितुमत्र लोके कः कविः शक्नोति । भारतीयपक्षे-धनंजयाय अर्जुनाय । [यत्र काव्ये सततसनिहितो वि. धिरिष्टदेवः अन्यादृशं अनन्यसाधारणां विभूति पदरचनाप्रतिभां धनंजयाय कवये सृजति ददाति ।] वसन्ततिलकावृत्तम् । आक्षेपालंकारः ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां पुरवर्णनो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः । अथाभवत्सदशरथोग्रविक्रमः स्मरन्दिवानिशमृषिधर्मसंयमान् । पुरः श्रियः शशिरुचिपाण्डुराननं विकासयन्नधिपतिरिद्धशासनः ॥ १॥