SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १२ काव्यमाला | जल इति ॥ यत्र जले नत्राणां महाव्यापारः । न जने वृद्धपरिपाटीहानिसंयोगः । धनुर्धराणां प्रत्यञ्चाविस्फारः । न संपदां ज्यानेनितो विघातः । रणे शरासनजीवया स्वीकारः । निर्गुणे यतौ नाङ्गीकारः । विशालताविस्तीर्णता । विशालता विगतप्राकारतान । श्लेषपरिसंख्ये ॥ अनिष्टयोगः प्रियविप्रयोगिता प्रजाविलोपः पुररोधनं परैः । . · विलापितान्यायरवः पराभवः कथागमेष्वेव न यत्र जातुचित् ॥ ४६ ॥ अनिष्टेति ॥ यत्र पुरि । अनिष्टयोगः अनिष्टयोर्दुःखतत्कायोर्योगः संबन्धः । प्रियवि - - प्रयोगिता प्रिययोः सुखतत्कारणयोर्विप्रयोगिता विप्रलम्भः । प्रजानामष्टादशप्रकृतीनां विलोप उच्छेदः । परैः शत्रुभिः पुररोधनम् । विलापिता गुणग्रहणमिश्रं रोदनम् । अन्यायरवोऽनीतिशब्दः । अभिभवः पराभवः । एते प्रकाराः कथागमेष्वेव पुराणेतिहासेष्वेव श्रूयन्ते । नाप्रजासु जातुचित् कदापि ॥ च्युताधिकारा इव चिन्तयाकुला विनोदबिन्दोः श्रमगा मृगा इव । भुवं लिखन्तः कनकातुरा इव श्रयन्ति यस्यां कवयः परां व्यथाम् ४७ च्युतेति ॥ यस्यां कवय एव परां व्यथां श्रयन्ति नान्य इति परिसंख्या । विनोद - विदोः कुतूहललवाय । श्लेषाय । चतुर्थ्यर्थे षष्ठी । मृगास्तु जलबिन्दोर्विना श्रमप्राप्ताः । उपमालंकारः ॥ रथाङ्गनामा विरही क्षपाकरः स पक्षहीनो मुखरश्च कोकिलः । कृतोर्ध्वनाशः करभो नखक्षतं क्षतं न यस्यामपरं कुतश्चन ॥ ४८ ॥ रथाङ्गेति ॥ यस्यां रथाङ्गनामा चक्रवाको विरही, नान्यः । क्षपाकरश्चन्द्रः पक्षहीनः संततिवर्जितः (कृष्णपक्षे हीनतागामी) नान्यः सपक्षविधुरः । कोकिलो वाचालो नान्यः । उष्ट्रः कृतोर्ध्वप्राणः; नान्यः । शूलारोपणमृत्युः । नखक्षतं क्षतमासीत्, अपरं कुतश्चन न । परिसंख्या || कुकाव्यबन्धे यतिवृत्तभङ्गयोः स्थितिः समासादिषु लोपविग्रहम् । सरःसु रोधः पुरि यत्र पत्रिषु प्रयुज्यते पक्षतिरक्षरे लयः ॥ ४९ ॥ कुकेति ॥ यत्र पुरि यतेर्विच्छेदसंज्ञिकाया वृत्तस्य छन्दसो भङ्गयोः स्थितिरवस्थानं कुत्सितकाव्यबन्धे एव । यतेर्लिङ्गिनो वृत्तस्य ब्रह्मचर्यरूपस्य भङ्गयोस्तु न । समासादिषु व्याकरणप्रसिद्धेषु, लोपो विभक्त्यादेः, विग्रहो वृत्त्यर्थावबोधकवाक्यम्, नान्यत्र लोपो देवदायाद्यपहरणम्, विग्रहः परस्परं विरोधः । सरःसु तडागेषु रोधस्तटम्, नान्यत्रावरणम् । पत्त्रिषु विहगेषु पक्षतिः पक्षमूलम्, नान्यत्रापगता क्षतिः । अक्षरे वर्णे लयः श्लेषः, नान्यत्र । श्लेषः ॥ असत्यसंधाः परलोकवञ्चकाः कृतोपचाराः कृतकेन कर्मणा । मुहूर्तरक्तास्तरला बहुच्छलाः परे न यस्यां पुरि पण्यदारतः ॥ ५० ॥ १. ‘यमकश्लेषचित्रेषु सशयोर्वबयोर्न भित्' इत्युक्तिमाश्रित्येदम्.
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy