Book Title: Dravyanuyogatarkana
Author(s): Bhojkavi
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 18
________________ ओं नमः सिद्ध भ्यः । उपोद्घातः। विदितमस्तु समस्तवस्तुवेदकवीतरागचरणशरणमासेदुषामाप्तोदितविश्वासजुषां हेयोपादेयविदुषां विदुषां प्रति संप्रति यद्धि समीचीनतायाः प्राचीनतायाश्च निदर्शने जैनदर्शने सम्यरदर्शनज्ञानचारित्रमयरत्नत्रयसमुदयमेव निखिलकर्मनिर्मोक्षणलक्षणस्य मोक्षस्य कारणं विश्रुतमिति । तत्रापि च तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति महाशास्त्रतत्त्वार्थाधिगमसूत्रानुकूलं जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाख्यां सप्ततत्त्वानां स्वरूपानुरूपश्रद्धानलक्षणं सम्यग्दर्शनं प्रकृष्टतरं, तेन विना ज्ञानस्य सज्ज्ञानमन्तरा चारित्रस्यासमीचीनत्वाच । उक्तेषु सप्ततत्त्वेषु जीवाजीवौ मुख्यतमौअपराणि त्वनयोः संयोगजनितानीति च । एतयोर्जीवस्त्वेक एव, अजीवः पुनर्धर्माधर्माकाशकालपुद्गलभेदात्पश्चधा । एवमेकेन जीवेन सार्द्धमजीवस्य पश्चप्रकाराणां मेलने कृते निष्पन्ना या षट्संख्या सैव षड्द्रव्यत्वेन प्रपन्नाः सर्वज्ञैः। द्रव्यलक्षणं चाखिलमतविलक्षणं गुणपर्ययवत्त्वमतः कृत्वा गुणपर्यायसमन्वितानां षण्णां द्रव्याणां परिज्ञानमेव मोक्षं प्रत्यत्यन्तोपयोगीति पर्यवसन्नम्।। अत एव च विहितातरौद्रदुर्ध्यानद्वयवियोगानां श्रेयोविनियोगानां प्रथमफरणचरणद्रव्याभिख्यचतुरनुयोगानां मध्ये स्याद्वादभानुप्रखरकरप्रकरदूरीकृतैकान्तध्वान्तं शुद्धबुद्धकस्वभावपरमात्मस्वरूपनिरूपणसुधासंधूतमिथ्यात्वमलमलिनभव्यजनस्वान्तं नितान्तनिचितपरमशुद्धोपयोग चरमद्रव्यानुयोग विशेषेण समनुमनन्ति परिशीलयन्ति चात्मज्ञानप्रसेदिवांसो विद्वांसः । दुःषमारजनिजनितप्रतिसमयविवर्द्धमाननिबिडान्धकारप्रचारसंजातैर्जनतामतिमान्यप्रमादानिष्टजनदौष्टयादिकारणजातैनष्टे नष्टप्राये जीणितेऽनवधारितसत्त्वे च कलाकलापालयनिखिलनिलिम्पपत्यालापसंस्तुतसर्वज्ञकल्पानल्पयतिपतिपरिकल्पितैतद्विषयकसिद्धान्तसंघाते संतिष्ठन्ते किलाधुनापि सुकृतिनां सुकृतैर्दिगम्बरश्वेताम्बराख्ययोरुभयोरेव संप्रदाययोर्मध्ये शतशो ग्रन्था इति संतोषास्पदमिदम् । तेषु चैषा यथार्थनामा द्रव्यानुयोगतर्कणाप्यन्यतमा। अस्या विधाता तपोगच्छगगनभास्करश्रीविनीतसागरप्रियाप्रशिष्यो द्रव्यविज्ञाननागरः सद्गुणसागरः श्रीभोजसागरः स्वजनुषा कतमं वसुधामण्डलं मण्डयामासेति निर्णतुं नो शक्नुमः । समयश्चास्य दुर्वारमारमदमर्दक. श्रीहेमचन्द्रसूरीश्वरविनिर्मितायाः स्याद्वादपरिच्छेदिकाया अन्ययोगव्यवच्छेदद्वात्रिशिकाया निरवद्यपद्यानां स्वप्रबन्धे विनियोजनात्-श्रीमद्यशोविजयोपाध्यायमतल्लिकाविहितद्रव्यगुणपर्यायभाषाविवरणो दितार्थमनुसृत्यैतद्ग्रन्थसंकलनाञ्च विक्रमार्कपश्चदशशताब्द्युत्तरमेव भवेदित्युनुमीयते। विज्ञजनसंस्तुतेऽस्मिन् प्रस्तुते ग्रन्थे गुणपर्ययवद्रव्य मितिसूत्रोदितलक्षणानुकूलं जीवाजीवादि षड्व्याणां तद्वर्तिनां गुणपर्यायाणां च स्वरूपं मन्दमतिमनुजावबोधनार्थमनतिविस्तरेण सरलसंस्कृतेन सशास्त्राप्रमाणे सयौक्तिकं च प्रदर्शितं ग्रन्थका । प्रसंगाच्चानेकान्तमत जोवनप्रायाणां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 226