________________
ओं नमः सिद्ध भ्यः । उपोद्घातः।
विदितमस्तु समस्तवस्तुवेदकवीतरागचरणशरणमासेदुषामाप्तोदितविश्वासजुषां हेयोपादेयविदुषां विदुषां प्रति संप्रति यद्धि समीचीनतायाः प्राचीनतायाश्च निदर्शने जैनदर्शने सम्यरदर्शनज्ञानचारित्रमयरत्नत्रयसमुदयमेव निखिलकर्मनिर्मोक्षणलक्षणस्य मोक्षस्य कारणं विश्रुतमिति । तत्रापि च तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति महाशास्त्रतत्त्वार्थाधिगमसूत्रानुकूलं जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाख्यां सप्ततत्त्वानां स्वरूपानुरूपश्रद्धानलक्षणं सम्यग्दर्शनं प्रकृष्टतरं, तेन विना ज्ञानस्य सज्ज्ञानमन्तरा चारित्रस्यासमीचीनत्वाच । उक्तेषु सप्ततत्त्वेषु जीवाजीवौ मुख्यतमौअपराणि त्वनयोः संयोगजनितानीति च । एतयोर्जीवस्त्वेक एव, अजीवः पुनर्धर्माधर्माकाशकालपुद्गलभेदात्पश्चधा । एवमेकेन जीवेन सार्द्धमजीवस्य पश्चप्रकाराणां मेलने कृते निष्पन्ना या षट्संख्या सैव षड्द्रव्यत्वेन प्रपन्नाः सर्वज्ञैः। द्रव्यलक्षणं चाखिलमतविलक्षणं गुणपर्ययवत्त्वमतः कृत्वा गुणपर्यायसमन्वितानां षण्णां द्रव्याणां परिज्ञानमेव मोक्षं प्रत्यत्यन्तोपयोगीति पर्यवसन्नम्।।
अत एव च विहितातरौद्रदुर्ध्यानद्वयवियोगानां श्रेयोविनियोगानां प्रथमफरणचरणद्रव्याभिख्यचतुरनुयोगानां मध्ये स्याद्वादभानुप्रखरकरप्रकरदूरीकृतैकान्तध्वान्तं शुद्धबुद्धकस्वभावपरमात्मस्वरूपनिरूपणसुधासंधूतमिथ्यात्वमलमलिनभव्यजनस्वान्तं नितान्तनिचितपरमशुद्धोपयोग चरमद्रव्यानुयोग विशेषेण समनुमनन्ति परिशीलयन्ति चात्मज्ञानप्रसेदिवांसो विद्वांसः ।
दुःषमारजनिजनितप्रतिसमयविवर्द्धमाननिबिडान्धकारप्रचारसंजातैर्जनतामतिमान्यप्रमादानिष्टजनदौष्टयादिकारणजातैनष्टे नष्टप्राये जीणितेऽनवधारितसत्त्वे च कलाकलापालयनिखिलनिलिम्पपत्यालापसंस्तुतसर्वज्ञकल्पानल्पयतिपतिपरिकल्पितैतद्विषयकसिद्धान्तसंघाते संतिष्ठन्ते किलाधुनापि सुकृतिनां सुकृतैर्दिगम्बरश्वेताम्बराख्ययोरुभयोरेव संप्रदाययोर्मध्ये शतशो ग्रन्था इति संतोषास्पदमिदम् ।
तेषु चैषा यथार्थनामा द्रव्यानुयोगतर्कणाप्यन्यतमा। अस्या विधाता तपोगच्छगगनभास्करश्रीविनीतसागरप्रियाप्रशिष्यो द्रव्यविज्ञाननागरः सद्गुणसागरः श्रीभोजसागरः स्वजनुषा कतमं वसुधामण्डलं मण्डयामासेति निर्णतुं नो शक्नुमः । समयश्चास्य दुर्वारमारमदमर्दक. श्रीहेमचन्द्रसूरीश्वरविनिर्मितायाः स्याद्वादपरिच्छेदिकाया अन्ययोगव्यवच्छेदद्वात्रिशिकाया निरवद्यपद्यानां स्वप्रबन्धे विनियोजनात्-श्रीमद्यशोविजयोपाध्यायमतल्लिकाविहितद्रव्यगुणपर्यायभाषाविवरणो दितार्थमनुसृत्यैतद्ग्रन्थसंकलनाञ्च विक्रमार्कपश्चदशशताब्द्युत्तरमेव भवेदित्युनुमीयते।
विज्ञजनसंस्तुतेऽस्मिन् प्रस्तुते ग्रन्थे गुणपर्ययवद्रव्य मितिसूत्रोदितलक्षणानुकूलं जीवाजीवादि षड्व्याणां तद्वर्तिनां गुणपर्यायाणां च स्वरूपं मन्दमतिमनुजावबोधनार्थमनतिविस्तरेण सरलसंस्कृतेन सशास्त्राप्रमाणे सयौक्तिकं च प्रदर्शितं ग्रन्थका । प्रसंगाच्चानेकान्तमत जोवनप्रायाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org