________________
स्यादस्तिस्यानास्तीत्यादिरूपाणां सप्तभङ्गानां दिगम्बराचार्यवर्यबोदेवसेनजी पाद विनिर्मितनयचक्राधारतया नयोपनयमूलनयानामन्येषामपि बहूनां विषयाणां निरूपणं कृतमस्तीत्येतत्सर्वमने विषयसूचीतो ज्ञातं भविष्यति ।
सर्वहितविहितप्रयत्नस्य चास्य शास्त्ररत्नस्य दुष्प्राप्यत्वात्सर्वजनसौकर्यायश्रीपरमतप्रभावक मण्डलसत्त्वाधिकारिभी रायचन्द्रजनशास्त्रमालाद्वारा मुद्रापणे मनोरथं व्यधायि । उक्तमण्डलव्यवस्थापकेन श्रोरेवाशंकर जगजोवनाभिधेन श्रेष्ठिवरेण व्याकरणाचार्यपण्डितठाकुरप्रसादशमद्विवेदिभिरनुवादं कारयित्वा सत्स्वपि बहुरत्नायां वसुन्धरायां मत्तोऽप्यधिकविद्वत्सु मय्येवाध्यारोपितोऽस्य संशोधनमारः । प्रेषिते चोभे पुस्तके । एकं च प्रायः शुद्धं पुस्तकं जयपुरस्थसंवेगिसाधुपवरश्रीशिवरामजिदनुग्रहेण लब्धं मया । एवं समुपगते पुस्तकत्रये तदनुसारं यथामति सावधानतया नातिशीघ्रतया च संशोधनमकारि । यत्र तत्र शङ्कास्थलेषु च साधुश्रीशिवरामजीप्रभृतिभिरपि साहाय्यमवापि । तथापि संप्रति 'सर्वः सर्व न जानाति सर्वज्ञो नास्ति कश्चन' इति न्यायेन केवलिश्रुतकेवलिनमन्तरा सर्वेषामेवागाधागमवाधौं प्रस्खलनसंभवान्मदीयप्रमादाज्ञानाद्यैर्मुद्रणकालोनैरपरैश्च कारणकलापैर्मूले यास्त्रुटयो भवेयुस्तासां शोधनं कृत्वा तद्विषयकसूचनया मामनुगृह्वायुस्तत्रभवन्तः सजनविद्वद्वराः येन द्विरावृत्तौ ता न स्युः क्षन्तव्यश्चाज्ञानादिजनितो ममापराध इति मुहुर्मुहुः प्रार्थयेऽहमिति दिक् ।
संशोधको निवेदकश्च विज्ञानुचरो जयपुरस्थः साहित्यशास्त्रीत्युपाधिधारी
जवाहरलालो दिगम्बरोयजनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org