Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
समाधिशतकम्।
२६९
आत्मीयां बहिरात्मावस्थामनुस्मृत्य विषादं कुर्वनाहमत्तश्च्युत्वेन्द्रियद्वारैः पतितो विषयेवहम् । ताप्रपद्याहमिति मां पुरवेद न तत्त्वतः ॥ १६ ॥ . अथात्मनो ज्ञप्तौ उपायमुपदर्शयन्नाहएवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषतः । एष योगः समासेन प्रदीपः परमात्मनः ॥ १७ ॥ कुतः पुनर्बहिरन्तर्वाचस्त्यागः कर्त्तव्य इत्याहयन्मया दृश्यते रूपं तन्न जानाति सर्वथा। जानन्न दृश्यते रूपं ततः केन ब्रवीम्यहम् ॥ १८॥ एवं बहिर्विकल्पं परीत्यज्यान्तर्विकल्पं परित्याजयन्नाहयत्परैः प्रतिपाद्योऽहं यत्परान्प्रतिपादये । उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पकः ॥ १९ ॥ तदेव विकल्पातीते स्वरूपं निरूपयन्नाहयदग्राह्यं न गृह्णाति गृहीतं नापि मुञ्चति । जानाति सर्वथा सर्व तत्स्वसंवेद्यमस्म्यहम् ॥ २० ॥ पूर्व कीदृशं मम चेष्टितमित्याह
उत्पन्नपुरुषभ्रान्तेः स्थाणौ यद्वद्विचेष्टितम् ।
तद्वन्मे चेष्टितं पूर्व देहादिप्वात्मविभ्रमात् ॥ २१ ॥ साम्प्रतं तत्परिज्ञाने सति कीदृशं मे चेष्टितमित्याह
यथासौ चेष्टते स्थाणी निवृत्ते पुरुषाग्रहे । तथाचेष्टोऽस्मि देहादौ विनिवृत्तात्मविभ्रमः ॥२२॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324