Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 299
________________ २९० प्रथम गुच्छक । गतानुगतिकैरहो त्वदपरत्र भक्तैर्जनैरनायतनसेवनं निरयहेतुरंगीकृतम् ॥ ३५ ॥ सदा हननघातनाद्यनुमतिप्रवृत्तात्मनां प्रदुष्टचरितोदितेषु परिहृष्यतां देहिनाम् । अवश्यमनुषज्यते दुरितबन्धनं तत्त्वतः शुभेऽपि परिनिश्चितस्त्रिविधबंधहेतुर्भवेत् ॥ ३६ ॥ विमोक्षसुखचैत्यदानपरिपूजनाद्यात्मिकाः क्रिया बहुविधासुभृन्मरणपीडना हेतवः । त्वया ज्वलितकेवलेन न हि देशिताः किं नु तास्त्वयि प्रसृतभक्तिभिः स्वयमनुष्ठिताः श्रावकैः ॥३७॥ त्वया त्वदुपदेशकारिपुरुषेण वा केनचित् कथंचिदुपदिश्यते स्म जिन ! चैत्यदानक्रिया । अनाशकषिधिश्च केशपरिलुचनं चाऽथवा श्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥ ३८ ॥ न चासुपरिपीडनं नियमतोऽशुभायेष्यते त्वया न च शुभाय वा न हि च सर्वथा सत्यवाक् । न चाऽपि दमदानयोः कुशलहेतुतैकान्ततो विचित्रनयभंगजालगहनं त्वदीयं मतम् ॥ ३९ ॥ त्वयाऽपि सुखजीवनार्थमिह शासनं चेत्कृतं कथं सकलसंग्रहत्यजनशासिता युज्यते । तथा निरशनार्द्धभुक्तिरसवर्जनाधुक्तिभिजितेन्द्रियतया त्वमेव जिन ! इत्यभिख्यां गतः ॥४० जिनेश्वर ! न ते मतं पटकवस्त्रपात्रग्रहो विमृश्य सुखकारणं स्वयमशक्तकै कल्पितः ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324