Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 297
________________ ૨૮૮ प्रथम गुच्छक। प्रतिक्षणविभंगुरं सकलसंस्कृतं चेप्यते ननु स्वमतलोकलिंगपरिनिश्चयैाहितम् ॥२३॥ न सन्ततिरनश्वरी न हि च नश्वरी नो द्विधा वनादिवदभाव एव यत इष्यते तत्त्वतः । वृथैव कृषिदानशीलमुनिवन्दनादिक्रियाः कथञ्चिदविनश्वरी यदि भवेत्प्रतिक्षाक्षतिः ॥ २४ ॥ अनन्यपुरुषोत्तमो मनुजतामतीतोऽपि स. मनुष्य इति शस्यसे त्वमधुना नरैर्बालिशैः । क ते मनुजगर्भिता क च विरागसर्वशता न जन्ममरणात्मता हि तव विद्यते तत्त्वतः ॥ २५ ॥ स्वमातुरिह यद्यपि प्रभव इष्यते गर्भतो मलैरनुपसंप्लुतो वरसरोजपत्रऽम्बुवत् । हिताहितविवेकशून्यहृदयो न गर्भेऽप्यभूः कथं तव मनुष्यमात्रसशस्वमाशयते ॥ २६ ॥ न मृत्युरपि विद्यते प्रकृतिमानुषस्येव ते मृतस्य परिनिर्वृतिर्न मरणं पुनर्जन्मवत् । जरा च न हि यद्वपुर्विमलकेवलोत्पत्तितः. प्रभृत्यरुजमेकरूपमवतिष्ठते प्राङ् मृतेः ॥२७॥ परः कृपणदेवकैः स्वयमसत्सुखैः प्रार्थ्यते मुखं युवतिसेवनादिपरसन्निधिप्रत्ययम् । त्वया तु परमात्मना न परतो यतस्ते सुखं ध्यपेतपरिणामकं निरुपमं ध्रुवं स्वात्मजं ॥२८॥ पिशाचपरिवारितः पितृवने नरीनृत्यते क्षरदूधिरभीषणद्विरदकृत्तिहेलापटः ।

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324