Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
पात्रकेसरिस्तोत्रम् ।
२८७
२८७
विनाऽऽयुधपरिग्रहाजिन ? जितास्त्वया दुर्जयाः कषायरिपवो परैर्न तु गृहीतशस्त्रैरपि ॥ १७ ॥ धियान्तरतमार्थवद्गतिसमन्वयान्वीक्षणा. द्भवेत्खपरिमाणवत्क्वचिदिह प्रतिष्ठा परा । प्रहाणमपि दृश्यते क्षयवनो निमूलात्कचित्तथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः ॥ १८ ॥ अशेषविदिहेक्ष्यते सदसदात्मसामान्यविजिन ! प्रकृतिमानुषोऽपि किमुताखिलज्ञानवान् । कदाचिदिह कस्यचित्क्वचिदपेतरागादिता स्फुटं समुपलभ्यते किमुत ते व्यपेतैनसः ॥१९॥ अशेषपुरुषादितत्त्वगतदेशनाकौशलं त्वदन्यपुरुषान्तरानुचितमाप्ततालाञ्छनम् । कणादकपिलाक्षपादमुनिशाक्यपुत्रोक्तयः स्खलन्ति हि सुचक्षुरादिपरिनिश्चितार्थेष्वपि ॥२०॥ परैरपरिणामकः पुरुष इज्यते सर्वथा प्रमाणविषयादितत्त्वपरिलोपनं स्यात्ततः । कषायविरहान चाऽस्य विनिबन्धनं कर्मभिः कुतश्व परिनिर्वृतिः क्षणिकरूपतायां तथा ॥ २१ ॥ मनो विपरिणामकं यदिह संसृतिं चाश्नुते तदेव च विमुच्यते पुरुषकल्पना स्याद् वृथा । न चाऽस्य मनसो विकार उपपद्यते सर्वथा ध्रुवं तदिति हीष्यते द्वितयवादिता कोपिनी ॥ २२ ॥ प्रथग्जनमनोनुकूलमपरैः कृतं शासनं मुखेन सुखमाप्यते न तपसेत्यवश्येन्द्रियैः ।

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324