SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । २८७ २८७ विनाऽऽयुधपरिग्रहाजिन ? जितास्त्वया दुर्जयाः कषायरिपवो परैर्न तु गृहीतशस्त्रैरपि ॥ १७ ॥ धियान्तरतमार्थवद्गतिसमन्वयान्वीक्षणा. द्भवेत्खपरिमाणवत्क्वचिदिह प्रतिष्ठा परा । प्रहाणमपि दृश्यते क्षयवनो निमूलात्कचित्तथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः ॥ १८ ॥ अशेषविदिहेक्ष्यते सदसदात्मसामान्यविजिन ! प्रकृतिमानुषोऽपि किमुताखिलज्ञानवान् । कदाचिदिह कस्यचित्क्वचिदपेतरागादिता स्फुटं समुपलभ्यते किमुत ते व्यपेतैनसः ॥१९॥ अशेषपुरुषादितत्त्वगतदेशनाकौशलं त्वदन्यपुरुषान्तरानुचितमाप्ततालाञ्छनम् । कणादकपिलाक्षपादमुनिशाक्यपुत्रोक्तयः स्खलन्ति हि सुचक्षुरादिपरिनिश्चितार्थेष्वपि ॥२०॥ परैरपरिणामकः पुरुष इज्यते सर्वथा प्रमाणविषयादितत्त्वपरिलोपनं स्यात्ततः । कषायविरहान चाऽस्य विनिबन्धनं कर्मभिः कुतश्व परिनिर्वृतिः क्षणिकरूपतायां तथा ॥ २१ ॥ मनो विपरिणामकं यदिह संसृतिं चाश्नुते तदेव च विमुच्यते पुरुषकल्पना स्याद् वृथा । न चाऽस्य मनसो विकार उपपद्यते सर्वथा ध्रुवं तदिति हीष्यते द्वितयवादिता कोपिनी ॥ २२ ॥ प्रथग्जनमनोनुकूलमपरैः कृतं शासनं मुखेन सुखमाप्यते न तपसेत्यवश्येन्द्रियैः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy