________________
२८६
प्रथम गुच्छक ।
व्यपेतपरिशङ्कनं वितथकारणादर्शनादतोऽपि भगव॑स्त्वमेव परमेष्टितायाः पदम् ॥ ११ ॥ न लुन्ध इति गम्यसे सकलसङ्गसंन्यासतो न चाऽपि तव मृढता विगतदोषवाग्यद्भवान् । अनेकविधरक्षणादसुभृतां न च द्वेषिता निरायुधतयाऽपि च व्यपगतं तथा ते भयम् ॥ १२ ॥ यदि त्वमपि भाषसे वितथमेवमाप्तोऽपि सन् परेषु जिन का कथा प्रकृतिलुब्धमुग्धादिषु । न चाऽप्यकृतकात्मिका वचनसंहतिदृश्यते पुनर्जननमध्यहो! न हि विरुध्यते युक्तिभिः ॥ १३ ॥ सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियामसन्दर्शनात् । फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुतिः ॥ १४ ॥ स्मृतिश्च परजन्मनः स्फुटमिहेश्यते कस्यचित्तथाप्तवचनान्तरात्प्रसृतलोकवादादपि । न चाऽप्यसत उद्भवो न च सतो निसूलात्क्षयः कथं हि परलोकिनामसुभृतामसत्तोहाते ॥ १५ ॥ न चाऽप्यसदुदीयते न च सदेव वा व्यज्यते सुराङ्गमदवत्तथा शिखिकलापवैचित्र्यवत् । क्वचिन्मृतकरन्धनार्थपिठरादिके नेस्यते .
क्षतिजलादिसङ्गगुण इज्यते चेतना ॥ १६ ॥ तकरणं वपुर्विगतभूषणं चाऽपि ते तजनचित्तनेत्रपरमोत्सवत्वं गतम् ।