SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । तथापि जिन ! सम्मतं सुविदुषां न चात्यद्भुतं 'भवन्ति हि महात्मनां दुरुदितान्यपि ख्यातये ॥५॥ सुरेन्द्रपरिकल्पितं बृहदनय॑सिंहासनं तथाऽऽतपनिवारणत्रयमथोल्लसच्चामरम् । वशं च भुवनत्रयं निरुपमा च निःसंगता न संगतमिदं द्वयं त्वयि तथाऽपि संगच्छते ॥६॥ त्वमिन्द्रियविनिग्रहप्रवणनिष्ठुरं भाषसे तपस्यपि यातयस्यनघदुष्करे संश्रितान् । अनन्यपरिदृष्ट्या षडसुकायसंरक्षया स्वनुग्रहपरोऽप्यहो ! त्रिभुवनात्मनां नापरः ॥७॥ ददास्यनुपमं सुखं स्तुतिपरेग्चतुभ्यन्नपि क्षिपस्यकुपितोऽपि च ध्रुवमसूयकान्दुर्गतौ । न चेश! परमेष्टिता तव विरुद्धयते यद्भवान् न कुप्यति न तुष्यति प्रकृतिमाश्रितो मध्यमाम् ॥ ८॥ परिक्षपितकर्मणस्तव न जातु रागादयो न चेन्द्रियर्विवृत्तयो न च मनस्कृता व्यावृतिः। तथाऽपि सकलं जगधुगपदंजसा वेत्सि च प्रपश्यसि च केवलाभ्युदितदिव्यसच्चक्षुषा ॥९॥ क्षयाच्च रतिरागमोहभयकारिणां कर्मणां कषायरिपुनिर्जयः सकलतत्त्वविद्योदयः । अनन्यसदृशं सुखं त्रिभुवनाधिपत्यं च ते सुनिश्चितमिदं विभो ! सुमुनिसम्प्रदायादिभिः॥ १० ॥ न हीन्द्रियधिया विरोधि न च लिंगबुद्धया वचो . न चाप्यनुमतेन ते सुनयसप्तधा योजितम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy