________________
श्रीमद्विद्यानन्दस्वामिविरचितं पात्रकेसरिस्तोत्रम् | ( १५ )
जिनेन्द्र ! गुणसंस्तुतिस्तव मनागपि प्रस्तुता भवत्यखिलकर्मणां प्रहतये परं कारणम् । इति व्यवसिता मतिर्मम ततोऽहमत्यादरात् स्फुटार्थनयपेशलां सुगत ! संविधास्ये स्तुतिम् ॥ १ ॥ ५ मतिः श्रुतमथावधिश्व सहजं प्रमाणं हि ते ततः स्वयमबोधि मोक्षपदर्षी स्वयंभूर्भवान् । न चैतदिह दिव्यचक्षुरधुनेक्ष्यतेऽस्मादृशां यथा सुकृतकर्मणां सकलराज्यलक्ष्म्यादयः ॥ २ ॥ व्रतेषु परिरज्यसे निरुपमे च सौख्ये स्पृहा विभेष्यपि च संसृतेरसुभृतां वधं द्वेक्ष्यपि । कदाचिददयोदयो विगतचित्तकोऽप्यञ्जसा तथापि गुरुरिष्यसे त्रिभुवनैकबन्धुर्जिनः ॥ ३ ॥ तपः परमुपश्चितस्य भवतोऽभवत्केवलं समस्तविषयं निरक्षमपुनश्च्युति स्वात्मजम् | निरावरणमक्रमं व्यतिकरादपेतात्मकं तदेव पुरुषार्थसारमभिसम्मतं योगिनाम् ॥ ४ ॥ परस्परविरोधवद्विविधभङ्गशाखाकुलं पृथग्जनसुदुर्गमं तव निरर्थकं शासनम् ।